________________
श्रीस्थानागसूत्रवृत्तिः
४ स्थानकाध्ययने उद्देशः१ ध्यानानि सू० २४७
॥१८७॥
मिलापसंसूचनार्थ निरयायुष्के कर्मणि अक्षीणे यावत्करणात् अवेइए इत्यादि दृश्यमिति ४, निगमयन्नाह–'इच्चेएहिं ति, इति एवंप्रकारैरेतैः-प्रत्यक्षरनन्तरोक्तत्वादिति । अनन्तरं नारकस्वरूपमुक्तं, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति तद्विपक्षभूतं परिग्रहविशेष चतुःस्थानकेऽवतारयन्नाह-कप्पंती'त्यादि, कल्पन्ते-युज्यन्ते निर्गता ग्रन्थाद्-बन्धहेतोर्हिरण्यादेर्मिथ्यात्वादेश्चेति निर्ग्रन्थ्यः-साध्व्यस्तासां सङ्घाव्यः-उत्तरीयविशेषरूपा धारयितुं वा परिग्रहे परिहर्तुं वा परिभोक्तुमिति, द्वौ हस्तौ विस्तारः-पृथुत्वं यस्याः सा तथा, कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघाटीनां, “एगं दुहत्थवित्थारं, एगं चउहत्थवित्थारं'ति प्रथमा स्यात्तदर्थे च प्राकृतत्वात् द्वितीयोक्ता, धारयन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन वेति (वा) | क्रियानुस्मृतेः द्वितीयैव, तत्र प्रथमा उपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी | समवसरणे, उक्तं च-"संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ दुन्नि तिहत्थायामा भिक्खहा एग एग उच्चारे ।
ओसरणे चउहत्था निसन्नपच्छायणी मसिणा ॥१॥” इति नारकत्वं ध्यानविशेषाद्, ध्यानविशेषार्थमेव च संघाव्यादिपरिग्रह इति ध्यानं प्रकरणत आह
चत्तारि झाणा पं० सं०-अट्टे झाणे रोदे झाणे धम्मे झाणे सुके झाणे, अट्टे झाणे चउन्विहे पं० २०–अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति १, मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति २ आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागए यावि भवति ३, परिजुसितकामभोगसंपओगसंपउत्ते १ संघाव्यश्चतस्रस्तत्र द्विहस्ता उपाश्रये ॥ द्वे त्रिहस्तायामे भिक्षायै एका उच्चारे चैका अवसरणे चतुर्हस्ता निषण्णप्रच्छादनी मसृणा ॥१॥
॥१८७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org