________________
णस्स गं भिक्खागस्स तयक्खातसमाणे तवे पण्णत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कढुक्खायसमाणस्स णं मिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते (सू० २४३) त्वचं-बाह्यवल्कं खादतीति त्वक्खादः, एवं शेषा अपि, नवरं 'छल्लित्ति अभ्यन्तरं वल्कं काष्ठं-प्रतीतं सारः-काष्ठ-13 मध्यमिति दृष्टान्तः, 'एवमेवेंत्याद्युपनयसूत्रं, भिक्षणशीला भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः, त्वक्खादेन धुणेन समानोऽत्यन्तं सन्तोषितया आयामाम्लादिप्रान्ताहारभक्षकत्वात् त्वक्खादसमानः, एवं छल्लीखादसमानोऽलेपाहारकत्वात् काष्ठखादसमानो निर्विकृतिकाहारतया सारखादसमानः सर्वकामगुणाहारत्वादिति, एतेषां चतुर्णामपि भिक्षाकाणां तपोविशेषाभिधानसूत्रं 'तयक्खाये'त्यादि, सुगम, केवलमयं भावार्थ:-त्वकल्पासाराहाराभ्यवह निरभिष्वङ्गत्वात् कर्मभेदमङ्गीकृत्य वज्रसारं तपो भवतीत्यतोऽपदिश्यते–'सारक्खायसमाणे तत्ति, सारखादघुणस्य सारखादत्वादेव समर्थत्वात् वज्रतुण्डत्वाच्चोते, सारखादसमानस्योक्तलक्षणस्य साभिष्वङ्गतया त्वक्खादसमानं कर्मसारभेदं प्रत्यसमर्थ तपः स्यात् , त्वक्खादकघुणस्य हि तत्त्वादेव सारभेदनं प्रत्यसमर्थत्वादिति, तथा छल्लीखादघुणसमानस्य भिक्षाकस्य त्वक्खादघुणसमानापेक्षया किञ्चिद्विशिष्टभोजित्वेन किञ्चित्साभिष्वङ्गत्वात् सारखादकाष्ठखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्वङ्गित्वाच्च कर्मभेदं प्रति काष्ठखादघुणसमानं तपः प्रज्ञप्तं, नातितीव्र, सारखादधुणवत् , नाप्यतिमन्दादि, त्वक्छल्लीखादघुणवदिति भावः, तथा काष्ठखादधुणसमानस्य साधोः सारखादघुणसमानापेक्षया असारभोजित्वेन निरभिष्वङ्गत्वात् त्वक्छल्लीखादघुणसमानापेक्षया सारतरभोजित्वेन साभिष्वङ्गत्वाच्च छल्लीखादघुणसमानं तपः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org