SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ भियुज्य २-सम्बन्धमुपगत्य प्रतिस्पर्ध वा अभिभवन्ति-न्यक्कुर्वन्तीति, शेषं सुगमम् । उक्तविपर्ययसूत्र प्राग्वत्, किन्तु | हितम्-अदोषकरमिह परत्र चात्मनः परेषां च पथ्यान्नभोजनवत्, सुखम्-आनन्दस्तृषितस्य शीतलजलपान इव क्षमम्-उचितं तथाविधव्याधिव्याघातकौषधपानमिव निःश्रेयसं-निश्चितं श्रेयः-प्रशस्यं भावतः पञ्चनमस्कारकरणमिव अनुगामिकम्-अनुगमनशीलं भास्वरद्रव्यजनितच्छायेवेति । अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाह एगमेगा णं पुढवी तिहिं वलएहिं सव्वओ समंता संपरिक्खित्ता, तं०-घणोदधिवलएणं घणवातवलएणं तणुवायवलतेणं (सू० २२४) णेरइया णं उक्कोसेणं तिसमतितेणं विग्गहेणं उववजंति, एगिदियवजं जाव वेमाणियाणं (सू० २२५) 'एगमेगे'त्यादि, एकैका पृथ्वी रत्नप्रभादिका सर्वतः, किमुक्तं भवति?-समन्तादथवा दिक्षु विदिक्षु चेत्यर्थः 'सम्परिक्षिप्ता' वेष्टिता आभ्यन्तरं घनोदधिवलयं ततः क्रमेणेतरे, तत्र घनः-स्त्यानो हिमशिलावत् उदधिः-जलनिचयः स चासौ स चेति घनोदधिः स एव वलयमिव वलयं-कटकं घनोदधिवलयं तेन, एवमितरे अपि, नवरं घनश्चासौ वा-18 तश्च तथाविधपरिणामोपेतो घनवातः, एवं तनुवातोऽपि तथाविधपरिणाम एवेति, भवन्त्यत्र गाथाः-निवि अ फुसंति अलोगं चउसुंपि दिसासु सव्वपुढवीओ । संगहिया वलएहिं विक्खंभं तेसि वोच्छामि ॥१॥ छच्चेव १ अद्धपंचम २ १ नैव च स्पृशंति अलोकं चतसृष्वपि दिक्षु सर्वाः पृथ्व्यः संगृहीता वलयैर्विष्कभं तेषां वक्ष्ये ॥ १॥ षट् चैवार्द्धपञ्चमानि ॥ RECARRRRA १० २२५) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy