SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ १७४ ॥ या तत्राध्युपपत्तिः सा जाणू या त्वजानतः सा अजाणू या तु संशयवतः सा विचिकित्सेति, 'परियावजण 'त्ति पर्यापदनं पर्यापत्तिरासेवेतियावत् साऽप्येवमेवेति । 'जाणु'त्ति ज्ञः, स च ज्ञानात् स्यादित्युक्तं ज्ञानं चातीन्द्रियार्थेषु | प्रायः शास्त्रादिति शास्त्रभेदेन तद्भेदानाह - 'तिविहे अंते' इत्यादि, अमनमधिगमनमन्तः - परिच्छेदः, तत्र लोको-लोकशास्त्रं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिः तस्मादन्तो निर्णयस्तस्य वा परमरहस्यं पर्यन्तो वेति लोकान्तः, एवमितरावपि, नवरं वेदा ऋगादयः ४ समया जैनादिसिद्धान्ता इति । अनन्तरं समयान्त उक्तः, समयश्च जिनकेवल्यईच्छन्दवाच्यैरुक्तः सम्यग्भवतीति जिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह - 'तओ जिणे'त्यादि, सुगमा, नवरं रागद्वेषमोहान् जयन्तीति जिना :- सर्वज्ञाः, उक्तं च- "रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ । अस्त्रशस्त्रा| क्षमालत्वादन्नेवानुमीयते ॥ १ ॥” इति, तथा जिना इव ये वर्त्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनास्तत्रावधिज्ञानप्रधानो जिनोऽवधिजिनः एवमितरावपि, नवरमाद्यावुपचरितावितरो निरुपचारः, उपचारकारणं तु प्रत्यक्षज्ञानित्वमिति, केवलम् - एकमनन्तं पूर्ण वा ज्ञानादि येषामस्ति ते केवलिनः उक्तं च- " केसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तणाणी तम्हा ते केवली होंति ॥ १ ॥” इति इहापि जिनवद् व्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रहः प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात्ते अरहसः, शेषं प्राग्वत् । एते च सलेश्या अपि भवन्तीति लेश्याप्रकरणमाह १ कृत्स्नं केवलकल्पं लोकं जानाति पश्यति च । केवलचारित्रज्ञानी तस्मात्स केवली भवति ॥ १ ॥ Jain Education International For Personal & Private Use Only ३ स्थान काध्ययने उद्देशः ४ सू०२१८ २१९ अवधि जिनाद्याः सू० २२० ॥ १७४ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy