________________
न्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्म्मत्वात्, सुगतिधारणाद्धि धर्म इति उक्तं च- " नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिपि समाओगे मोक्खो जिणसासणे भणिओ ॥ १ ॥” इति [ ज्ञानं प्रकाशकं शोधकं तपः संयमस्तु गुप्तिकरः । त्रयाणामपि समायोगो मोक्षो जिनशासने भणितः ॥ १ ॥ ] णमिति वाक्यालङ्कारे । सुतपस्थितमिति चारित्रमुक्तं तच्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह
तिविधा बाबत्ती पं० तं० - जाणू अजाणू वितिगिच्छा, एवमज्झोववज्जणा परियावज्जणा ( सू० २१८ ) तिविधे अंते पं० तं०—लोगंते वेयंते समयंते ( सू० २१९ ) ततो जिणा पं० तं० ओहिणाणजिणे मणपज्जवणाणजिणे केवलणाणजिणे १, ततो केवली पं० तं० - ओहिनाणकेवली मणपज्जवनाणकेवली केवलनाणकेवली २, तओ अरहा, पं० तं०—ओहिनाणअरहा मणपज्जवनाणअरहा केवलनाणअरहा ३ ( सू० २२० )
'तिविहे 'त्यादि, व्यावर्त्तनं व्यावृत्तिः कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, सा च या ज्ञस्य - हिंसादेर्हेतु स्वरूपफलविदुषो ज्ञानपूर्विका व्यावृत्तिः, सा तदभेदात् जाणुत्ति गदिता, या त्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता, या तु विचिकित्सातः- संशयात् सा निमित्तनिमित्तिनोरभेदाद्विचिकित्सेत्यभिहिता । व्यावृत्तिरित्यनेनानन्तरं चारित्रमुक्तं तद्विपक्षश्चाशुभाध्यवसायानुष्ठाने इति तयोरधुना भेदानतिदेशत आह— 'एव' मित्यादि सूत्रे, 'एव' मिति व्यावृत्तिरिव त्रिधा 'अज्झोववजण 'त्ति अध्युपपादनं क्वचिदिन्द्रियार्थे अभ्युपपत्तिरभिष्वङ्ग इत्यर्थः तत्र जानतो विषयजन्यमनर्थ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org