SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १७३ ॥ 'तओ गारवे 'त्यादि व्यक्तं, परं गुरोर्भावः कर्म वेति गौरवं तच्च द्वेधा - द्रव्यतो वज्रादेर्भावतोऽभिमानलो भलक्षणाशुभभाववत आत्मनः, तत्र भावगौरवं त्रिधा, तत्र ऋद्ध्या - नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवं ऋद्धिगौरवं ऋद्धिप्रात्यभिमानाप्राप्त प्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थः एवमन्यत्रापि, नवरं रसो- रसनेन्द्रियार्थो मधुरादिः सातं - सुखमिति, अथवा ऋद्ध्यादिषु गौरवमादर इति । अनन्तरं चारित्र - र्द्धिरुक्ता, चारित्रं च करणमिति तद्भेदानाह - 'तिविहे' इत्यादि, कृतिः करणमनुष्ठानं, तच्च धार्मिकादिस्वामिभेदेन त्रिविधं तत्र धार्मिकस्य - संयतस्येदं धार्मिकमेवमितरे, नवरमधार्मिकः - असंयतस्तृतीयो देशसंयतः, अथवा धर्मे भवं धर्मो वा प्रयोजनमस्येति धार्मिकं, विपर्यस्तमितरत्, एवं तृतीयमपीति । धार्मिककरणमनन्तरमुक्तं तच्च धर्म | एवेतिं तद्भेदानाह - 'तिविहे' इत्यादि स्पष्टं केवलं भगवता महावीरेणेत्येवं जगाद सुधर्म्मस्वामी जम्बूस्वामिनं प्रतीति, सुष्ठु - कालविनयाद्याराधनेनाधीतं - गुरुसकाशात् सूत्रतः पठितं स्वधीतं, तथा सुष्ठु विधिना तत एव व्याख्यानेनार्थतः श्रुत्वा ध्यातम् - अनुप्रेक्षितं श्रुतमिति गम्यं सुध्यातम्, अनुप्रेक्षणाऽभावे तत्त्वानवगमेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म्म उक्तः, तथा सुष्ठु - इहलोकाद्याशंसारहितत्वेन तपस्थितं - तपस्यानुष्ठानं, सुत|पस्थितमिति च चारित्रधर्म्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं दर्शयति - 'जया' इत्यादि व्यक्तं, परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यातं न भवति तदभावे ज्ञानविकलतया सुतपस्थितं न भवतीति भावः, यदेतत्-स्वधी - तादित्रयं भगवता वर्द्धमानस्वामिना धर्मः प्रज्ञप्तः 'से' त्ति स स्वाख्यातः - सुष्ट्क्तः सम्यग्ज्ञानक्रियारूपत्वात्, तयोश्चैका - Jain Education International For Personal & Private Use Only ३ स्थान काध्ययने उद्देशः ४ सू० २१५ २१६२१७ ॥ १७३ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy