SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ १७२ ॥ 'तिविहा इड्डी' इत्यादि, सूत्राणि सप्त सुगमानि, नवरं देवस्य - इन्द्रादेर्ऋद्धिः ऐश्वर्य देवर्द्धिरेवं राज्ञः - चक्रवर्त्त्यादेर्गणिनो - गणाधिपतेराचार्यस्येति १ । विमानानां विमानलक्षणा वा ऋद्धिः - समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्नादिरमणीयत्वं चेति विमानर्द्धिः, भवति च द्वात्रिंशलक्षादिकं सौधर्मादिषु विमानबाहुल्यम्, यथोक्तम् - " बत्तीस अट्ठवीसा वारस अट्ठ चउरो सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥ १ ॥ पंचास चत्त छच्चेव सहस्सा लंतसुक्कसहसारे । सयचउरो आणयपाणएसु तिन्नारणच्चुयए ॥ २ ॥ एक्कारसुत्तर हेडिमेसु सत्तत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥ ३ ॥” इति, उपलक्षणं चैतत् भवननगराणामिति, वैक्रियकरणलक्षणा ऋद्धिर्वैक्रियर्द्धिः, वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् वा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्याम् - " चमेरे णं भंते ! केमहिडिए जाव केवतियं च णं पभू विउब्वित्तए ?, गोयमा ! चमरे णं जाव पभू णं केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा ! पभू चमरे जाव तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णं गोयमा ! चमरस्त ३ अयमेयारूवे विसयमेत्ते १ द्वात्रिंशदष्टाविंशतिर्द्वादशाष्ट च चत्वारि शतसहस्राणि । आराद्रह्मलोकात् विमानसंख्यैषा भवेत् ॥ १ ॥ पंचाशचत्वारिंशत् षट् सहस्राणि लान्तकशुक्रसहस्रारेषु चत्वारि शतान्यानतप्राणतयोस्त्रीण्यारणाच्युतयोः ॥ २ ॥ अधस्तने एकादशाधिकं मध्यमे सप्तोत्तरं शतं उपरितने एकं शतं अनुत्तरविमानानि पंचैव ॥ ३ ॥ २ चमरो भदन्त ! कीदृशो महर्द्धिको यावत्कियद्विकुर्वयितुं प्रभुः ? गौतम ! चमरो यावत्समर्थः केवलकल्पं जंबूद्वीपं बहुभिरसुर कुमारनिकायैः देवैः देवीभिश्व आकीर्ण यावत् कर्त्तुं अथ च गौतम प्रभुखमरो यावत्तिर्यगसंख्येयद्वीपसमुद्रान् बहुभिर सुरकुमार निकायैराकीर्णान् यावत्कर्त्ता, एष गौतम । चमरस्य एतादृशखरूपः विषयमात्र उक्तः Jain Education International For Personal & Private Use Only ३ स्थानकाध्ययने उद्देशः ४ देवराजगणिऋद्धिः सू० २१४ ॥ १७२ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy