________________
SHABHARASHRS
रिति वक्तव्यं स्यात्, स हि साक्षादिवावलोकयति हेयोपादेयानि समस्तवस्तूनि, केवली विह न व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुद्रंयकल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पतया तस्य चक्षुस्त्रयं न विद्यत इतिकृत्वेति, द्रव्येन्द्रियापेक्षया तु सोऽपि न विरुध्यत इति । चक्षुष्माननन्तरमुक्तः, तस्य चाभिसमागमो भवतीति तं दिग्भेदेन विभजयन्नाह-तिविहे'इत्यादि, अभीत्यर्थाभिमुख्येन न तु विपर्यासरूपतया समिति-सम्यक् न संशयतया तथा आ-मर्यादया गमनमभिसमागमो-वस्तुपरिच्छेदः। इहैव ज्ञानभेदमाह-'जया 'मित्यादि, 'अइसेस'त्ति शेषाणि-छद्मस्थज्ञानान्यतिक्रान्तमतिशेष-ज्ञानदर्शनं तच्च परमावधिरूपमिति संभाव्यते, केवलस्य न क्रमेणोपयोगो येन तत्प्रथमतयेत्यादि सूत्रमनवा स्यादिति, तस्य-ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता तस्यां 'उर्दुति' ऊर्ध्वलोकमभिसमेति-समवगच्छति जानाति ततस्तियेगिति-तिर्यग्लोकं ततस्तृतीये स्थानेऽध इत्यधोलोकमभिसमेति, एवं च सामर्थ्यात् प्राप्तमधोलोको दुरभिगमः, क्रमेण पर्यन्ताधिगम्यत्वादिति, हे श्रमणायुष्मन्निति शिष्यामन्त्रणमिति । अनन्तरमभिसमागम उक्तः, स च ज्ञानं तच्चद्धि रिहैव वक्ष्यमाणत्वादिति ऋद्धिसाधात् तद्भेदानाह
तिविधा इड्डी पं० तं०-देविडी राइड्डी गणिड्डी १, देविड्डी तिविहा पं० सं०-विमाणिडी विगुव्वणिड़ी परियारणिड्डी २,
अहवा देविड्डी तिविहा पं० सं०-सचित्ता अचित्ता मीसिता ३, राइड्डी तिविधा पं० २०रन्नो अतियाणिड्डी रन्नो निजा_णिड्डी रण्णो बलवाहणकोसकोट्ठागारिडी ४, अहवा रातिड्डी तिविहा पं० त०-सचित्ता अचित्ता मीसिता ५, गणिड्डी तिविहा
पं० सं०-णाणिड्डी दंसणिड्डी चरित्तिड्डी६, अहवा गणिड्डी तिविहा पं० सं०-सचित्ता अचित्ता मीसिया ७, (सू० २१४)
*
dain Education International
For Personal & Private Use Only
www.jainelibrary.org