________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १७१ ॥
तिविहे पोग्गलपडिघाते, पं० तं० – परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिहन्निज्जा लुक्खत्ताते वा पडिण्णिज्जा लोगंते वा पडिहन्निज्जा (सू० २११ ) तिविहे. चक्खू पं० तं - एगचक्खू बिचक्खू तिचक्खू, छउमत्थे णं मस्से एगचक्खू देवे बिचक्खू तहारूवे समणे वा माहणे वा उप्पन्ननाणदंसणधरे से णं तिचक्खुत्ति वत्तव्वं सिता ( सू० २१२ ) तिविधे अभिसमागमे पं० तं० उड्डुं अहं तिरियं, जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से णं तप्पढमताते उड्डमभिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगे णं दुरभिगमे पन्न समणाउसो ! (सू० २१३ )
'तिविहे' इत्यादि, पुद्गलानाम् - अण्वादीनां प्रतिघातो - गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गलः स तदन्तरं प्राप्य प्रतिहन्येत -गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तरात् गतितः प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति । पुद्गलप्रतिघातं च सचक्षुरेव जानातीति तन्निरूपणायाह'तिविहे' इत्यादि, प्रायः कण्ठ्यं, चक्षुः- लोचनं तद् द्रव्यतोऽक्षि भावतो ज्ञानं तद्यस्यास्ति स तद्योगाच्चक्षुरेव चक्षुष्मानित्यर्थः, स च त्रिविधः - चक्षुः सङ्ख्याभेदात्, तत्रैकं चक्षुरस्येत्येकचक्षुरेवमितरावपि, छादयतीति छद्म-ज्ञानावरणादि तत्र तिष्ठतीति छद्मस्थः, स च यद्यप्यनुत्पन्न केवलज्ञानः सर्व एवोच्यते तथापीहातिशयवत् श्रुतज्ञानादिवर्जितो विवक्षित इति एकचक्षुः चक्षुरिन्द्रियापेक्षया देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम्, उत्पन्नमावरणक्षयोपशमेन ज्ञानं च श्रुता| वधिरूपं दर्शनं च - अवधिदर्शनरूपं यो धारयति -वहति स तथा य एवंभूतः स त्रिचक्षुः, चक्षुरिन्द्रियपरमश्रुतावधिभि
Jain Education International
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ४
श्रमणश्रा
वकमनो
रथाः
सू० २१०-. २११
चक्षुः सू० २१२२१३
॥ १७१ ॥
www.jainelibrary.org