SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ उवएस परस्स देंति एवं तु । दसविहवेयावच्चे कायव्व संयं न कुव्वंति ॥२॥” इति, गतिः-मानुषत्वादिका तत्रेहलालोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवदिहलोकप्रत्यनीकः, परलोको-जन्मान्तरं तत्प्रत्यनीकः इन्द्रियार्थतत्परो, द्विधालोकप्रत्यनीकश्चौर्यादिभिरिन्द्रियार्थसाधनपरः, यद्वा इहलोकप्रत्यनीक इहलोकोपकारिणां भोगसाधनादीनामुपद्रवकारीहलोकप्रत्यनीका, एवं ज्ञानादीनामुपद्रवकारी परलोकप्रत्यनीकः, उभयेषां तु द्विधालोकप्रत्यनीक इति, अथवेहलोको-मनुष्यलोकः परलोको-नारकादिरुभयमेतदेव द्वितयं, प्रत्यनीकता तु तद्वितथप्ररूपणेति, कुलं चान्द्रादिकं तत्समूहो गणः कोटिकादिस्तत्समूहः सङ्घ इति, प्रत्यनीकता चैतेषां अवर्णवादादिभिरिति, कुलादिलक्षणं चेदम्-'ऐत्थ कुलं विन्नेयं एगायरियस्स संतई जाउ । तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइ ॥१॥ सब्वोऽवि नाणदसणचरणगुणविभूसियाण समणाणं । समुदायो पुण संघो गुणसमुदाओत्तिकाऊणं ॥२॥' अनुकम्पाम्-उपष्टम्भं प्रतीत्य-आश्रित्य तपस्वी-क्षपकः, ग्लानो-रोगादिभिरसमर्थः, शैक्षः-अभिनवप्रव्रजितः, एते ह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति, भावः-पर्यायः, सच जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः क्षायिकादिः, अप्रशस्तो विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततो भावं-ज्ञानादि प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा, यथा-"पाययसुत्तनिबद्धं को १ परस्योपदेशं ददति एवमेव दशविधं वैयावृत्त्यं कर्त्तव्यं परं खयं न कुर्वन्ति ॥ २ ॥ २ अत्र कुलं विज्ञेयमेकाचार्यस्य या तु संततिः । त्रयाणां कुलानां मिथः सापेक्षाणां गणो भवति ॥१॥ सर्वोऽपि ज्ञानदर्शनचरणगुणविभूषितानां श्रमणानां। समुदायः पुनः संघः गुणसमुदाय इतिकृत्वा ॥२॥ ३ प्राकृतभाषानिबद्धमेतच्छ्रुतं को खनुकम्पनीयपष्टम्भ प्रसारणगुणविभ jalt Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy