________________
इत्यादि, जिना-गच्छनिर्गतसाधुविशेषास्तेषां कल्पस्थितिर्जिनकल्पस्थितिः, सा चैवम्-जिनकल्पं हि प्रतिपद्यते जघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुनि सति उत्कृष्टतस्तु दशसु भिन्नेषु प्रथमे संहनने, दिव्याधुपसर्ग रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादि जीर्णवस्त्राणि च त्यजति, वसतिः सर्वोपाधिविशुद्धास्य, भिक्षाचर्या तृतीयपौरुष्यां, पिण्डैषणोत्तरासां पञ्चानामेकतरैव, विहारो मासकल्पेन, तस्यामेव वीथ्यां षष्ठदिने भिक्षाटनमिति, एवंप्रकारा चेयं 'सुयसंघयणे'त्यादिकाद् गाथासमूहात् कल्पोक्तादवगन्तव्येति, भणितं च-"गच्छंमि य निम्माया धीरा जाहे य गहियपरमत्था । अग्गहि जोग अभिग्गहि, उति जिणकप्पियचरित्तं ॥१॥" अग्रहे आद्ययोरभिग्रहे-पञ्चानां पिण्डैषणानां द्वयोर्योगे-द्वयोर्मध्ये एकतरस्या गृहीतपरमार्थाः, “धिईबलिया तवसूरा निती गच्छाउ ते पुरिससीहा। बलवीरियसं-15 घयणा उवसग्गसहा अभीरुया ॥१॥” इति, स्थविरा:-आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थितिः स्थविरकल्प
स्थितिः, सा च "पैव्वजा सिक्खायमर्थंगहणं च अनियओ वासो । निष्फत्ती य विहारो सामायारी ठिई चेव ॥१॥" है इत्यादिकेति, इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं निविशमानकं तदनन्तरं निर्विष्टका-8|
यिकं तदनन्तरं जिनकल्पः स्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिकः सूत्रयोः क्रमोपन्यास इति । उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह
१ गच्छे च निर्माता धीरा यदा गृहीतपरमार्थाः अग्राह्याभिग्रहयोगे चोपयंति जिनकल्पिकचरित्रं ॥१॥२ धृतिबलिकाः तपःशूरास्ते पुरुषसिंहा गच्छानिर्गनाच्छति बलवीर्यसंहननयुता उपसर्गसहा अभीरवः ॥१॥ ३ प्रव्रज्या शिक्षा व्रतानि अर्थग्रहणं चानियतो वासः शिष्याणां निष्पत्तिश्च विहारः सामाचारी स्थितिश्च ॥१॥
Jain Education International
For Personal & Private Use Only
woww.jainelibrary.org