________________
श्रीस्थानाङ्गसूत्रवृत्तिः
CASASSAGE
३ स्थानकाध्ययने | उद्देश:४ सू० २०६
॥१६८॥
हा कप्पो दसठाणपइडिओ होइ ॥१॥" इति, "आचेल १ कुद्देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६
जेठ ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पे १० ॥२॥" इति, निर्विशमाना ये परिहारविशुद्धितपोऽनुचरन्ति परिहारिका इत्यर्थः, तेषां कल्पे स्थितियथा-ग्रीष्मशीतवर्षाकालेषु क्रमेण तपो जघन्यं चतुर्थषष्ठाष्टमानि मध्यमं पष्ठादीनि उस्कृष्टमष्टमादीनीति, पारणं चायाममेव, पिण्डैषणासप्तके चाद्ययोरभिग्रह एव, पञ्चसु पुनरेकया भक्तमेकया च पानकमित्येवं द्वयोरभिग्रह इति, उक्तं च-"बारस १ दस २ अट्ठ ३ दस १४ २ छट्ठ ३ अहेव १ छह २ चउरो य ३। उक्कोसमज्झिमजहन्नगा उ वासासिसिरगिम्हे ॥१॥पारणगे आयाम पंचसु गहो दोसऽभिग्गहो भिक्खे"ति, निविष्टा -आसेवितविवक्षितचारित्रा अनुपरिहारिका इत्यर्थः, तत्कल्पस्थितियथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति, उक्तं |च-"कैप्पट्ठियावि पइदिण करेंति एमेव चायाम"ति, एते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते,
तेषां च नवको गणो भवति, ते च एवंविधाः-"सेव्वे चरित्तवंतो उ, दंसणे परिनिहिया । नवपुब्बिया जहन्नेणं, उ|कोसा दसपुब्बिया ॥१॥ पंचविहे ववहारे, कप्पमि दुविहमि य । दसविहे य पच्छित्ते, सब्वे ते परिनिहिया ॥२॥
१ कल्पः दशस्थानप्रतिष्ठितो भवति ॥१॥ २ आचेलक्यमौदेशिकं शय्यातरपिंडः राजपिंडः कृतिकर्म व्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः ॥१॥ ३ द्वादशमं दशमं अष्टमं दशम अष्टमं षष्ठं । अष्टमं षष्ठं चतुर्थ चोत्कृष्टमध्यमजघन्यतो वर्षाशिशिरग्रीष्मेषु ॥१॥ पारणके आचामाम्लं पंचसु ग्रहो द्वयोरभिग्रहो भिक्षायां ॥ ४ कल्पस्थिता अपि प्रतिदिनमेवमेवाचाम्लं कुर्वन्ति ॥ ५ सर्वे चारित्रवन्त एव दर्शने परिनिष्ठिताः जघन्येन नवपूर्विण उत्कृष्टतो दशपूर्विणः ॥ पंचविधे व्यवहारे द्विविधे कल्पे च दशविधे च प्रायश्चित्ते सर्व एते परिनिष्टिताः ॥ २ ॥
॥१६८॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org