SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाजन्सूत्रवृत्तिः ३ स्थानकाध्ययने उद्देशः४ सू० २०६ ॥१६७॥ चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति । मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह-तओ महईत्यादि व्यक्तं, केवलमतिमहान्तश्च ते आलयाश्च-आश्रयाः अतिमहालया महान्तश्च तेऽतिमहालयाश्चेति महातिमहालयाः, अथवा लय इत्येतस्य स्वार्थिकत्वात् महातिमहान्त इत्यर्थः, द्विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्वगुरुत्वख्यापनार्थम् , अव्युत्पन्नो वाऽयमतिमहदर्थे वर्तत इति, 'मंदरेसु'त्ति मेरूणां मध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणां चतुर्णा सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति, स्वयम्भूरमणो महान् सुमेरोरारभ्य तस्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्वात् , तेषां तस्य च क्रमेण किञ्चिन्यूनाधिकरज्जुपादप्रमाणत्वादिति, ब्रह्मलोकस्तु महान् , तत्प्रदेशे पञ्चरज्जुप्रमाणत्वात् लोकविस्तरस्य, तत्प्रमाणतया च विवक्षितत्वात् ब्रह्मलोकस्येति । अनन्तरं ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधात् कल्पस्थिति त्रिधाऽऽह तिविधा कप्पठिती पं०, तं—सामाइयकप्पठिती छेदोवट्ठावणियकप्पद्विती निविसमाणकप्पट्ठिती ३, अहवा तिविहा कप्पद्विती पं० तं०-णिविट्ठकप्पद्विती जिणकप्पठिती थेरकप्पठिती ३ (सू० २०६) सूत्रद्वयं व्यक्तं, केवलं समानि-ज्ञानादीनि तेषामायो-लाभः समायः स एव सामायिक-संयमविशेषस्तस्य तदेव वा | कल्पः-करणमाचारः, यथोक्तम्-“सामर्थ्य वर्णनायां च, करणे छेदने तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदु-1| | बुंधाः॥१॥” इति सामायिककल्पः, स च प्रथमचरमतीर्थयोः साधूनामल्पकालः, छेदोपस्थापनीयस्य सद्भावात् , मध्यतीर्थेषु महाविदेहेषु च यावत्कथिकः, छेदोपस्थापनीयाभावात् , तदेवं तस्य तत्र वा स्थितिः-मर्यादा सामायिककल्प ॥१६७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy