________________
ALORCAMSALAMROSCOCAL
नंदीसरो ‘य अरुणो अरुणोवाओ य कुंडलवरो य । तह संख रुअंग भुअवर कुस कुंचवरो तओ दीवो ॥६॥" इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति, तद्रूपमिदम्"कुंडलवरस्स मज्झे णगुत्तमो होति कुण्डलो सेलो । पागारसरिसरूवो विभयंतो कुण्डलं दीवं ॥ १ ॥ बायालीससहस्से उव्विद्धो कुंडलो हवइ सेलो । एगं चेव सहस्सं धरणियलमहे समोगाढो ॥२॥ दस चेव जोयणसए बावीसे वित्थडो य मूलंमि । सत्तेव जोयणसए बावीसे वित्थडो मज्झे ॥३॥ चत्तारि जोयणसए चउवीसे वित्थडो उ सिहरतले"त्ति, तथा त्रयोदशे रुचकवराख्य द्वीपे कुण्डलाकृती रुचक इति, एतस्य त्विदं स्वरूपं-"रुयगवरस्स उ मज्झे नगुत्तमो होति पवओ रुअगो। पागारसरिसरूवो रुअगं दीवं विभयमाणो ॥१॥ रुयगस्स उ उस्सेहो चउरासीतिं भवे सहस्साई। एगं चेव सहस्सं धरणियलमहे समोगाढो ॥२॥ दस चेव सहस्सा खलु बावीसा जोयणाण बोद्धव्वा । मूलंमि उ विक्खंभो साहीओ रुयगसेलस्स ॥३॥” तथा मध्यविस्तारोऽस्य सप्त सहस्राणि द्वाविंशत्यधिकानि, शिरोविस्तारस्तु
१नंदीश्वरश्चारुणोऽरुणावपातच कुंडलवरच तथा शंखः रुचकः भुजवरः कुशः क्रौंचवरश्च ततो द्वीपः ॥ ६॥ २ कुंडलवरस्य मध्ये नगोत्तमो भवति कुंडलः | |शैलः प्राकारसदृशरूपो विभजन् कुंडलं द्वीपं ॥ १॥ द्विचत्वारिंशत्सहस्राण्युद्विद्धः कुंडलो भवति शैलः अधो धरणीतले एकमेव सहस्रं समवगाढः ॥२॥ दशयोजनशतानि द्वाविंशत्यधिकानि मूले विस्तृतो द्वाविंशत्यधिकसप्तयोजनशतानि मध्ये विस्तृतः ॥३॥ चतुर्विशत्यधिकचतुर्योजनशतानि शिखरतले विस्तृतः॥४॥
३ रुचकवरस्य मध्ये नगोत्तमो भवति पर्वतो रुचकः प्राकारसदृशरूपः रुचकं द्वीपं विभजन् ॥१॥ रुचकस्योत्सेधः चतुरशीतिर्भवेत् सहस्राणि धरणितले एकमेव ४ सहस्रमधः समवगाढः ॥ २॥ द्वाविंशत्यधिकदशसहस्रयोजनानि बोद्धव्यः मूले तु विष्कम्भः साधिकः रुचकशैलस्य ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org