________________
अवि फलति विउलमगुणं साहणहीणा जहा विज्जा ॥१॥" इति, अव्यवसितम्-अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिक परमक्रोधो यस्य सोऽव्यवसितप्राभृतः, उक्तं च-"अप्पेवि पारमाणिं अवराहे वयइ खामियं तं च ।। बहुसो उदीरयंतो अविओसियपाहुडो स खलु ॥१॥” इति, 'पारमाणि'परमक्रोधसमुद्घातं व्रजतीति भावः, एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊपरक्षिप्तबीजवदिति, आह च-"दुविहो उ परिच्चाओ इह चोयण कलह १ देवयाछलणं २ । परलोगंमि अ अफलं खित्तंपि व ऊसरे बीयं ॥१॥” इति, एतद्विपर्ययसूत्रं सुगमं । श्रुतदानस्यायोग्या उक्ताः, इदानी सम्यक्स्वस्याप्ययोग्यानाह–'तओ' इत्यादि कण्ठ्यं, किन्तु दुःखेन-कृच्छ्रेण संज्ञाप्यन्ते-प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्याः, तत्र दुष्टो-द्विष्टः तत्त्वं प्रज्ञापकं वा प्रति, स चाप्रज्ञापनीयो, द्वेषेणोपदेशाप्रतिपत्तेः, एवं मूढो-गुणदोषानभिज्ञः, व्युग्राहितः-कुप्रज्ञापकदृढीकृतविपर्यासः, सोऽप्युपदेशं न प्रतिपद्यते, उक्तं च "ऍव्वं कुग्गाहिया केई, बाला पंडियमाणिणो। नेच्छंति कारणं सोउं, दीवजाए जहा णरे ॥१॥” इति, एतेषां स्वरूपं कल्पात् कथाकोशाचावसेयमिति । एतद्वि
१ फलतीच्छितं फलं विद्या । विपुलमगुणं साधनहीना फलति यथा विद्या ॥१॥२ अल्पेऽपि अपराधे क्रोधं ब्रजति क्षामितं च बहुश उदीरयति सोऽव्यु-। षितप्राभृतः खलु ॥१॥ ३ द्विविधस्तु परित्यागः इह चोदने कलहः देवताछलनं । परलोके चाफलं ऊषरे क्षेत्र बीजमिव ॥१॥ ४ पूर्व कुग्राहिताः केचि- द्वालाः पंडितमानिनः । नेच्छन्ति कारणं श्रोतुं द्वीपजाता यथा नराः ॥१॥ (वुग्गाहियेति गाथावृत्तिः).
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org