SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ स्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीबः यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयो यस्तु | विपक्षेणावगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्लीबो निमन्त्रितक्लीवश्चेति, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वातिकक्लीबयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रत्राजयितुं, प्रब्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गादिति, उक्तं च - "र्जिणवयणे पडिकुडं जो पव्वावेइ लोभदोसेणं । चरणडिओ तवस्सी लोवेइ तमेव उ चरितं ॥ १ ॥” इति, इह त्रयोsप्रव्राज्या उक्ताः त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, यदाह - "बाले बुढे नपुंसे य, जड्डे कीवे य वाहिए । तेणे रायावगारी य, उम्मत्ते य अदंसणे ॥ १ ॥ दासे दुट्ठे (य) मूढे (य), अणत्ते जुंगिए इय । ओबद्धए य भयए, सेहनिप्फेडिया इय ॥ २ ॥ गुब्विणी बालवच्छा य, पव्वावेडं न कप्पइ"त्ति, अदंसणो-अन्धः अणत्तो ऋणपीडितः जुंगिओ - जात्यङ्गहीनः ओबद्धओ - विद्यादायकादिप्रतिजागरकः सेहणिप्फेडिआ अपहृत इति, 'एव' मित्यादि, यथैते प्रब्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रब्राजिता अपि सन्तो मुण्डयितुं शिरोलोचेन न कल्पन्ते, उक्तं च - "व्वाविओ सियत्ति, [ यः स्यादित्यर्थः > मुंडावेउं अणायरणजोगो | अहवा मुंडाविते दोसा अणिवारिया पुरिमा ॥ १ ॥” इति एवं शिक्षयितुं - प्रत्युपेक्षणादिसामाचारीं ग्राहयितुं, तथा उपस्थापयितुं - महाव्रतेषु व्यवस्थापयितुं, तथा १ जिनवचने प्रतिकुष्टं यः प्रव्राजयति लोभदोषेण । चरणस्थितस्तपखी लोपयति तदेव चारित्रं ॥ १ ॥ २ बालो वृद्धो नपुंसक जडः क्लीवच व्याधितः । स्तेनो राजापकारी व उन्मत्तञ्चादर्शनः ॥ १ ॥ दासो दुष्टश्च मूढश्च ऋणात जुंगित इति अवबद्धको मृतकः शिष्यनिष्केटिकेति ॥ २ ॥ गर्भिणी बालवत्सा च प्रव्राजयितुं न कल्पते ॥ ३ स्यात्प्रनाजितः मुंडयितुं अनाचरणयोग्यः अथवा मुंडिते पौरस्ख्या दोषा अनिवारिताः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy