SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 %%%%%% संयोगोऽभिप्रेतः, स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयं तत्र यद्यादिमानिति पक्षस्तदा किं पूर्वमात्मा पश्चात् कर्म्म अथ पूर्व कर्म्म पश्चादात्मा उत युगपत्कर्मात्मानौ संप्रसूयेतामिति त्रयो विकल्पाः, तत्र न तावत् पूर्व - मात्मसंभूतिः सम्भाव्यते, निर्हेतुकत्वात्, खरविषाणवत्, अकारणप्रसूतस्य च अकारणत एवोपरमः स्याद्, अथानादिरेव आत्मा तथाप्यकारणत्वान्नास्य कर्मणा योग उपपद्यते नभोवत्, अथाकारणोऽपि कर्मणा योगः स्यात् तर्हि स मुक्तस्यापि स्यादिति, अथासावात्मा नित्यमुक्त एव तर्हि किं मोक्षजिज्ञासया ?, बन्धाभावे च मुक्तव्यपदेशाभाव एव, आकाशवदिति, नापि कर्मणः प्राक् प्रसूतिरिति द्वितीयो विकल्पः सङ्गच्छते, कर्त्तुरभावात्, न चाक्रियमाणस्य कर्मव्यपदेशोऽभिमतः, अकारणप्रसूतेश्चाकारणत एवोपरमः स्यादिति, युगपदुत्पत्तिलक्षणस्तृतीयपक्षोऽपि न क्षमः, अकारणत्वादेव, न च युगपदुपत्तौ सत्यामयं कर्त्ता कर्मेदमिति व्यपदेशो युक्तरूपः, सव्येतरगोविषाणवदिति, अथादिरहितो जीवकर्मयोग इति पक्षः, ततश्चानादित्वादेव नात्मकर्मवियोगः स्यात्, आत्माऽऽकाशसंयोगवदिति, अत्रोच्यते, आदिमत्संयोगपक्षदोषा अनभ्युपगमादेव निरस्ताः, यच्चादिरहितजीवकर्मयोगेऽभिधीयते 'अनादित्वान्नात्मकर्म्मवियोग' इति, तदयुक्तम्, अनादित्वेऽपि संयोगस्य वियोगोपलब्धेः काञ्चनोपलयोरिवेति, यदाह – “जह वेह कंचणोवलसं| जोगोऽणाइसंतइगओऽवि । वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं ॥ १ ॥ "ति, तथा अनादेरपि सन्तानस्य विनाशो १ नभोऽङ्गिरोमनुषां वेति संज्ञाविषयं छन्दोविषयं वा, भाष्यप्रदीपेऽत एवोक्तं उपसंख्यानान्येतानि छन्दोविषयाणीत्याहुरिति २ यथा वेह काञ्चनोपलसंयो गोऽनादिसंततिगतोऽपि व्युच्छियते सोपायं तथा योगो जीवकर्मणोः ॥ १ ॥ For Personal & Private Use Only winelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy