________________
श्रीस्थानागसूत्रवृत्तिः
॥१६॥
दृष्टो बीजाङ्करसन्तानवत् , आह च-"अन्तरमणिब्वत्तियकजं बीयंकुराण जं विहयं । तत्थ हओ संताणो कुकुडिय- १ स्थानाडाइयाणं च ॥१॥" त्ति । अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाह-'एगे मोक्खे ध्ययने मोचनं कर्मपाशवियोजनमात्मनो मोक्षः, आह च-'कृत्स्नकर्मक्षयान्मोक्षः स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपिबन्धमोक्षा मोचनसामान्यात् मुक्तस्य वा पुनर्मोक्षाभावात् ईषत्प्राग्भाराख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतस्तयोश्च मोचनसामान्यादेको मोक्ष इति, नन्वपर्यवसानो जीवकर्मसंयोगोऽनादित्वाजीवाकाशसंयोगवदिति कथं मोक्षसम्भवः?, कर्मवियोगरूपत्वादस्य, अत्रोच्यते, अनादित्वादित्यनैकान्तिको हेतुः, धातुकाचनसंयोगो ह्यनादिः, स च सपर्यवसानो दृष्टः, क्रियाविशेषाद् , एवमयमपि जीवकर्मयोगः सम्यग्दर्शनज्ञानचारित्रैः | सपर्यवसानो भविष्यति, जीवकर्मवियोगश्च मोक्ष उच्यते इति, ननु नारकादिपर्यायस्वभावः संसारो नान्यः, तेभ्यश्चरा नारकत्वादिपर्यायेभ्यो भिन्नो नाम न कश्चिज्जीवो, नारकादय एव पर्याया जीवः, तदनन्तरत्वादिति संसाराभावे * जीवाभाव एव नारकादिपर्यायस्वरूपवदित्यसत्पदार्थों मोक्ष इति, आह च-"जं नारगोदिभावो संसारो नारगाइभिन्नो य । को जीवो तं मन्नसि ? तन्नासे जीवनासोत्ति ॥१॥" अत्र प्रतिविधीयते यदुक्तम् 'नारकादिपर्यायसंसाराभावे में सर्वथा जीवाभाव एवानर्थान्तरत्वान्नारकादिपर्यायस्वरूपवदिति, अयमनैकान्तिको हेतुः, हेनो मुद्रिकायाश्चानान्त-1*
१ अन्यतरत् अनिर्वतितकार्य बीजाङ्करयोर्यद्विहतम् । तत्र हतः संतानः कुक्कुव्यण्डादिकानां च ॥१॥ २ यत्रारकादिभावः संसारो नारकाविभावभिन्नश्च । को जीवः। (इति) त्वं मन्यसे, (यतः) तन्नाशे जीवनाश इति (स्थात्)
CAMARAQLASHARIKRISHA
॥१६॥
Join Education International
For Personal & Private Use Only
www.jainelibrary.org