SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्री स्थानाङ्गसूत्रवृत्तिः ॥ १५ ॥ नापेक्षाकारणमन्तरेण भवितुमर्हतः दृश्यते च तद्द्भावोऽतस्तत्सत्ता गम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलं, तथा स्थितिपरिणाम - परिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, मत्स्यादीनामिव मेदिनी, विवक्षया जलं वा, प्रयोगश्च - गतिस्थिती अपेक्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्यशुषिरमभावो वेति, किञ्च - अलोकाभ्युपगमे सति धर्माधर्म्माभ्यां लोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽकाशसाम्ये सति लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुद्गलानाञ्च प्रतिघाताभावादनवस्थानम्, अतः सम्बन्धाभावात् सुखदुःखबन्धादिसंव्यवहारो न स्यादिति, उक्तञ्च - " तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुल्ले लोगोsलोगोत्ति को भेओ ? ॥ १ ॥ लोगविभागाभावे पडिघाताभावओऽणवत्थाओ । संववहाराभावो संबंधाभावओ होज्जा ॥ २ ॥” इति । आत्मा च लोकवृत्तिर्धर्म्माधर्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा बध्यत इति बन्धनिरूपणायाह - 'एगे बंधे' बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते यत् स बन्ध इति भावः, स च प्रकृतिस्थितिप्रदेशानुभावविभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुनर्बन्धाभावाद्वा एको बन्ध इति, अथवा द्रव्यतो बन्धो निगडादिभिर्भावतः कर्म्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्म्मणोः Jain Education International १ स्थाना ध्ययने धर्मास्ति For Personal & Private Use Only कायाद्या निर्जरा १ तस्मात् धर्माधर्मौ लोकपरिच्छेदकारिणौ युक्तौ । इतरथाऽऽकाशे तुल्ये लोकोऽलोक इति को भेदः ॥ १ ॥ लोकविभागाभावे प्रतिघाताभावतोऽनवस्था ॥ १५ ॥ नातू । संव्यवहाराभावः संबन्धाभावतो भवेत् ॥ २ ॥ २ सदण्डाद्यपेक्षया. न्ताः ७-१६ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy