________________
BSNLOAUGUSARSONAGAR
विशिष्टज्ञानविकलश्चेतन एव गम्यते न घटादिरचेतनस्तद्वदलोकेनापि लोकानुरूपेणेति, आह च-“लोगस्सऽस्थि विवक्खो सुद्धत्तणओ घडस्स अघडोव्व । [प्रेरकः] स घडादी चेव मती [गुरुः] न निसेहाओ तदणुरूवो॥१॥" ति॥ लोकालोकयोश्च विभागकरणं धर्मास्तिकायोऽतस्तत्स्वरूपमाह
एगे धम्मे (सू० ७) एगे अधम्मे (सू०८) एगे बंधे (सू० ९) एगे मोक्खे (सू० १०) एगे पुण्णे (सू० ११) एगे पावे (सू० १२) एगे आसवे (सू० १३) एगे संवरे (सू० १४) एगा वेयणा (सू० १५) एगा निजरा
(सू० १६)॥१॥ एकः प्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्त्वेऽपि द्रव्यार्थतया तस्यैकत्वात् , जीवपुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद् धर्मः, स चास्तीनां-प्रदेशानां सङ्घातात्मकत्वात् कायोऽस्तिकाय इति ॥ धर्मस्यापि विपक्षस्वरूपमाह-'एगे अधम्म' एको द्रव्यत एव न धर्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीवपुद्गलानां गत्युपष्टम्भकारी, अयं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति, ननु धर्मास्तिकायाधर्मास्तिकाययोः कथमस्तित्वावगमः, प्रमाणादिति ब्रूमः, तच्चेदम्-इह गतिः स्थितिश्च सकललोकप्रसिद्धं कार्य, कार्य च परिणाम्यपेक्षाकारणायत्तात्मलाभं वर्त्तते, घटादिकार्येषु तथादर्शनात्, तथा च मृत्पिण्डभावेऽपि दिग्देशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण न घटो भवति यदि स्यात् मृत्पिण्डमात्रादेव स्यात् न च भवति, गतिस्थिती अपि जीवपुद्गलाख्यपरिणामिकारणभावेऽपि
१ लोकस्यास्ति विपक्षः शुद्ध(पद)त्वात् घटस्याघट इव । स घटादिरेव मतिः न निषेधात् तदनुरूपः ॥१॥
For Personal & Private Use Only
Maiyainelibrary.org