________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ १४ ॥
व्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १ ॥” इति, अथवा लोको नामादिरष्टधा, आह च -" नामं ठवणादविए खित्ते काले भवे य भावे य । पज्जवलोए य तहा अद्वविहो लोयनिक्खवो ॥१॥” ति, नामस्थापने सुज्ञाने, द्रव्यलोको जीवाजीवद्रव्यरूपः, क्षेत्रलोक आकाशमात्रमनन्तप्रदेशात्मकं, काललोकः समयावलि - कादिः, भवलोको नारकादयः स्वस्मिन् २ भवे वर्त्तमाना यथा मनुष्यलोको देवलोक इति, भावलोकः पडौदयिकादयो भावाः, पर्यवलोकस्तु द्रव्याणां पर्यायमात्ररूप इति, एतेषां चैकत्वं केवलज्ञानालोकनीयत्वसामान्यादिति ॥ लोकव्यवस्था ह्यलोके तद्विपक्षभूते सति भवतीति तमाह - 'एगे अलोए' एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षित भेदत्वादलोको लोकव्युदासात् नत्वनालोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति, ननु लोकैकदेशस्य प्रत्यक्षत्वात् तद्देशान्तरमपि बाधकप्रमाणाभावात् सम्भावयामो योऽयं पुनरलोकोऽस्य देशतोऽप्यप्रत्यक्षत्वात् कथमसावस्तीत्यध्यवसातुं शक्यो ? येनैकत्वेन प्ररूप्यत इति, उच्यते, अनुमानादिति, तच्चेदं विद्यमानविपक्षो लोको, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद्, इह यद्व्युत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्तीति द्रष्टव्यं यथा घटस्याघटः, व्युत्पत्तिमच्छुद्धपदवाच्यश्च लोकस्तस्मात् सविपक्ष इति यश्च लोकस्य विपक्षः सोऽलोकस्तस्मादस्त्यलोक इति, अथ न लोकोऽलोक इति घटादीनामेवान्यतमो भविष्यति किमिह वस्त्वन्तरकल्पनयेति ?, नैवं, यतो निषेधसद्भावान्निषेध्यस्यैवानुरूपेण भवितव्यं निषेध्यश्च लोकः स चाकाशविशेषो जीवादिद्रव्यभाजनमतः खल्वलोकेनाप्याकाशविशेषेणैव भवितव्यम्, यथेहापण्डित इत्युक्ते
Jain Education International
For Personal & Private Use Only
१ स्थाना
ध्ययने
दण्डयालोका
लोकाः
३-४-५-६
॥ १४ ॥
"www.ainelibrary.org