________________
हिंसादण्डाकस्माइयाशब्देन तु मृषाप्रत्यक्ता, तदेकत्वञ्च करणायः किलापि
'एगे दंडे' एकोऽविवक्षितविशेषत्वात् दण्ड्यते-ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, स च | द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्प्रयुक्तं मनःप्रभृति ॥ तेन चात्मा क्रियां करोतीति तामाह-एगा कि|रिया' एका-अविवक्षितविशेषतया करणमात्रविवक्षणात् करणं क्रिया-कायिक्यादिकेति, अथवा 'एगे दंडे एगा किरिय'त्ति सूत्रद्वयेनात्मनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्डक्रियाशब्दाभ्यां त्रयोदश क्रियास्थानानि प्रतिपादितानि, तत्रार्थदण्डानर्थदण्डहिंसादण्डाकस्माद्दण्डदृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परप्राणापहरणलक्षणो |दण्डशब्देन गृहीतः, तस्य चैकत्वं वधसामान्यादिति, क्रियाशब्देन तु मृषाप्रत्यया अदत्तादानप्रत्यया आध्यात्मिकी मानप्रत्यया मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया ऐर्यापथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वञ्च करणमात्रसामान्यादिति, दण्डक्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान एव वक्ष्याम इति । अक्रियावत्त्वनिरासश्चात्मन एवं, यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तैर्भोक्तृत्वमप्यभ्युपगतमतो भुजिक्रियानिवर्त्तनसामर्थ्य सति भोक्तृत्वमुपपद्यते तदेव च क्रिया|वत्त्वं नामेति, अथ प्रकृतिः करोति पुरुषस्तु भुङ्क्ते प्रतिबिम्बन्यायेनेति, तदयुक्तम् , कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्यु
पधानयोगेऽपि प्रतिबिम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात् प्रतिबिम्बस्येति, अथ प्रकृतिविकाररूपाया बुद्धेरेव | सुखाद्यर्थप्रतिबिम्बनं नात्मनः, तर्हि नास्य भोगः, तदवस्थत्वात्तस्येति, अत्रापि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति ॥ उक्तस्वरूपस्यात्मन आधारस्वरूपनिरूपणायाह-'एगे लोए' एकोऽविवक्षितास-ख्यप्रदेशाधस्तिर्यगादिदिग्भेदतया लो-1 क्यते-दृश्यते केवलालोकेनेति लोकः-धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तम्-"धर्मादीनां वृत्ति
EARN5
Jain Eduen
For Personal & Private Use Only
Lainelibrary.org