________________
RSSES
श्रीस्थानागसूत्रवृत्तिः
१ स्थानाध्ययने एकात्मनि सामान्यविशेषवादः
॥१३॥
सामान्यमेकं विशेषास्त्वनेकरूपा इत्यसङ्कीर्णवस्तुव्यवस्था स्यादिति, अत्रोच्यते, न ह्यस्माभिः सामान्यविशेषयोरेकान्तेन | भेदोऽभेदो वाऽभ्युपगम्यते, अपि तु विशेषा एव प्रधानीकृतातुल्यरूपा उपसर्जनीकृततुल्यरूपा विषमतया प्रज्ञायमाना | विशेषा व्यपदिश्यन्ते, त एव च विशेषा उपसर्जनीकृतातुल्यरूपाः प्रधानीकृततुल्यरूपाः समतया प्रज्ञायमानाः सामान्यमिति व्यपदिश्यन्त इति, आह च-"निर्विशेषं गृहीताश्च, भेदाः सामान्यमुच्यते । ततो विशेषात्सामान्यविशिष्टत्वं न युज्यते ॥१॥ वैषम्यसमभावेन, ज्ञायमाना इमे किल । प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि ॥२॥” इति, | तदेवं सामान्यरूपेणात्मा एको विशेषरूपेण त्वनेकः, न चात्मनां तुल्यरूपं नास्ति, एकात्मव्यतिरेकेण शेषात्मनामनात्मत्वप्रसङ्गादिति, तुल्यं च सरूपमुपयोगः 'उपयोगलक्षणो जीव' इति वचनात्, तदेवमुपयोगरूपैकलक्षणत्वात् सर्वे एवात्मान एकरूपाः, एवं चैकलक्षणत्वादेक आत्मेति, अथवा जन्ममरणसुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति । इह च सर्वसूत्रेषु कथञ्चिदित्यनुस्मरणीयं, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्थानिबन्धनत्वात् , उक्तश्च-"स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः। लोकद्वितयभाविन्यो, नैव साङ्गत्यमियूति ॥ १ ॥" तथा "नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमायोः प्रणता हितैषिणः ॥१॥” इति । आत्मन एकत्वमुक्तन्यायतोऽभ्युपगच्छद्भिरपि कैश्चिन्निष्क्रियत्वं तस्याभ्युपगतमतस्तन्निराकरणाय तस्य क्रियावत्त्वमभिधित्सुः क्रियायाः कारणभूतं (त)दण्डस्वरूपं प्रथमं तावदभिधातुमाह
एगे दंडे (सू० ३) एगा किरिया (सू०४) एगे लोए (सू० ५) एगे अलोए (सू० ६)
॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org