SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ णासे जेणेक्के कक्खरंपि य पयस्स । संखाईयसमइयं संखेजाई पयं ताई ॥२॥ संखेजपयं वक्कं तदत्थगहणपरिणामओ होजा । सव्वखणभंगनाणं तदजुत्तं समयनहस्स ॥ ३॥” इति, तथा सर्वथोच्छेदे तृप्त्यादयो न घटन्ते, पूर्वसंस्का रानुवृत्तावेव तेषां युज्यमानत्वाद् , आह च-"तित्ती समो किलामो सारिक्खविवक्खपच्चयाईणि । अज्झयणं झाणं भाभवणा य का सव्वनासंमि॥ १ ॥" त्ति, तत्र तृप्तिः-ध्राणिः श्रमः-अध्वादिखेदः क्लमो-लानिः सादृश्यं-साधर्म्य विपक्षो-वैधर्म्य प्रत्ययः-अवबोधः, शेषपदानि प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति । तदेवमात्मा स्थितिभवनभङ्गरूपः स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैकः भवनभङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाच्चानेक इति, आह च-"जमणंतपज्जयमयं वत्थु भवणं च चित्तपरिणाम । ठिइविभवभङ्गरूवं णिच्चाणिच्चाइ तोऽभिमयं ॥१॥"18 ति, एवं च-"सुहदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता । एगयरपरिच्चाए सव्वव्यवहारवुच्छित्ति ॥२॥" त्ति, अथवा-एक आत्मा कथञ्चिदेवेति, यतो जैनानां न हि सर्वथा किञ्चिद्वस्तु एकमने वाऽस्ति, सामान्यविशेषरूपत्वाद्वस्तुनः, अथ ब्रूयात्-विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो भेदाभेदाभ्यां चिन्त्यमानस्यायोगात्, तथाहि-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, न भिन्नमुपलम्भाभावाद्, न चानुपलभ्यमानमपि सत्तया व्यवहर्तुं शक्यं, खरविषाणस्यापि तथाप्रसङ्गात्, अथाभिन्नमिति पक्षः, तथा च सामान्यमानं वा स्याद्विशेषमात्रं वेति, न ह्येकस्मिन् स्था०३ १ तृप्तिः श्रमः क्लमः सादृश्य विपक्षप्रत्ययादयः । अध्ययनध्याने भावना च का सर्वनाशे ॥१॥ २ यदनन्तपर्ययमयं वस्तु भवनं च चित्रपरिणामम् । स्थितिविभवभङ्गरूपं नित्यानित्यादि ततोऽभिमतम् ॥१॥ सुखदुःखबन्धमोक्षा उभयनयमतानुवर्तिनो युक्ताः । एकतरपरित्यागे सर्वव्यवहारव्युच्छित्तिः ॥२॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy