________________
तमेव धरिसेइ ॥२॥” त्ति, "संसारमणवयग्गं जाइजरामरणवेयणापउरं । पावमलपडलछन्ना भमंति मुद्दाधरिसणेणं॥३॥" इति, परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजाग्रमहिष्यधिगन्तेति, उक्तं च-"जो य सलिंगे दुट्ठो कसाय विसएहिं रायवहगो य । रायग्गमहिसिपरिसेवओ य बहुसो पयासो य ॥१॥" प्रमत्तः-पञ्चमनिद्राप्रमादवान् , मांसाशिप्रव्रजि-8 तसाधुवदिति, अयं च सद्गुणोऽपि त्याज्य इति, आह च-"अवि केवलमुप्पाडे णय लिंगं देइ अणइसेसी से। देसवयदंसणं वा गेण्ह अणिच्छे पलायति ॥१॥” तथा, अन्योऽन्यं-परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वन् , पुरुषयुगमिति शेषः, उच्यते च-"आसयपोसयसेवी केवि मणूसा दुवेयगा होति । तेसिं लिंगविवेगो"त्ति, आसेवितातिचारविशेषः सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपि महाव्रतेषु नावस्थाप्यते-नाधिक्रियते इत्यनवस्थाप्यः तदतिचारजातं तच्छुद्धिरपि वाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति, तत्र साधर्मिकाः-साधवस्तेषां सत्कस्योत्कृष्टोपधि(धेः)शिष्यादेर्वा बहुशो वा प्रद्विष्टचित्तो वा, 'तेणं'ति स्तेयं-चौर्य कुर्वन् , तथा अन्यधार्मिमकाः-शाक्यादयो गृहस्था वा तेषां सत्कस्योपध्यादेः स्तेयं कुर्वन्निति १ तथा हस्तेनाऽऽताडनं हस्ततालस्तं 'दलमाणे ददत्, यष्टिमुष्टिलकुटादिभिर्मरणादिनिरपेक्ष
. १ तामेव धर्षयति ॥ २॥ संसारमनवदनं जन्ममरणजरावेदनाप्रचुर । पापमलपटलच्छन्ना भ्राम्यन्ति मुद्राधर्षणेन ॥३॥ २ यश्च खलिंगे कषायविषयैर्दुष्टः राजवधकच राजाप्रमहिषीपरिषेवकच बहुशः प्रकाशश्च ॥१॥ ३ अपि केवलमुत्पादयेन च लिंग तस्यानतिशयी ददाति । देशवतं सम्यक्त्वं वा गृहाण अनि|च्छति पलायन्ते ॥१॥ ४ास्यपोप्यसेविनः केऽपि मनुष्याः द्विवेदा भवन्ति तेषां लिंगविवेकः ॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org