________________
श्रीस्थानालसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः४ सू०१९१
॥१५७॥
'प्रतिमा' मासिक्यादिका भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्नः-अभ्युपगतवान् यः स तथा तस्यानगारस्य 'कल्पन्ते' युज्यन्ते त्रय उपाश्रीयन्ते-भज्यन्ते शीतादित्राणार्थ ये ते उपाश्रयाः-वसतयः प्रत्युपेक्षितुम्-अवस्थानार्थं निरीक्षित|मिति, 'अहे'त्ति अथार्थः, अथशब्दश्चेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधोः कल्पनीयतया है तुल्यताप्रतिपादनार्थो, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थ वा गृहमागमनगृहं-सभाप्रपादि,यदाह"आगन्तु गारत्थजणो जहिं तु, संठाइ जं वाऽऽगमणमि तेसिं । तं आगमो किं तु विदू वयंति, सभापवादेउलमाइयं ४ च ॥१॥” इति, तस्मिन् उपाश्रयः-तदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति, तथा 'वियर्ड'ति विवृतम्-| अनावृतं, तच्च द्वेधा-अध ऊर्श्व च, तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृतं अनाच्छादितममालगृहं चोर्ध्वविवृतं तदेव गृहं विवृतगृहम् , उक्तं च-“अवाउडं जं तु चउद्दिसिंपि, दिसामहो तिन्नि दुवे य एक्का । अहे भवे तं वियडं गिहं तु, उहुं अमालं च अतिच्छदं च ॥१॥" ति, तस्मिन् वा, तथा वृक्षस्य-करीरादेर्निर्गलस्य मूलम्-अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिन् वेति । प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम्'एवं'मिति, एतदेव 'पडिमापडिवन्ने'त्याधुच्चारणीयं, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं वाच्यमिति । अनुज्ञाते च गृहिणा | तस्योपादानमित्युपादानसूत्रं, तदप्येवमेवेति, 'ओवाइणित्तएंत्ति उपादातुं ग्रहीतुं प्रवेष्टुमित्यर्थः, एवं संस्तारकसूत्रत्रय
१ गृहस्थजन आगत्य यत्र तु संतिष्ठते यद्बागमने तेषां तदागन्तुकागारं विद्वांसो वदन्ति सभाप्रपादेवकुलादिकम् ॥१॥ २ अप्रावृतं यत्तु चतसूषु * दिक्षु अथवा तिस्पु दिक्षु द्वयोः पार्श्वयोरधश्च तदधोविवृतं अच्छादितममालं चोर्द्धविवृतं ॥१॥
॥१५७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org