________________
*
पूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राक्षरघटना - यथैवोपक्रमे आत्मपरतदुभयैस्त्रय आलापका उक्ताः एवमेकैकस्मिन् वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति । अथ श्रुतधर्मभेदा उच्यन्ते—
तिविहा कहा, पं० तं० - अत्थकहा धम्मका कामकहा ७, तिविहे विणिच्छते पं० तं० अत्थविणिच्छते धम्मविणिच्छते कामविणिच्छते ८, ( सू० १८९ )
अर्थस्य-लक्ष्म्याः कथा-उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा, उक्तं च – “सामादिधातुवादादिकृष्यादिप्रतिपादिका । अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्त्तिता ॥ १ ॥” तथा - " अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते । तृणादपि लघु लोके, धिगर्थरहितं नरम् ॥ १ ॥” इति, इयं च कामन्दकादिशास्त्ररूपा, एवं धर्मोपायकथा धर्म्मकथा, उक्तं च - "दयादानक्षमाद्येषु, धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा बुधैर्धर्म्मकथोच्यते ॥ १ ॥ ” तथा - " धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसक्कं पशोस्तुल्यं, धिग्धर्मरहितं नरम् ॥ २ ॥ इति, इयं चोत्तराध्ययनादिरूपावसेयेति, एवं कामकथाऽपि, यदाह - "कामोपादानगर्भा च वयोदाक्षिण्यसूचिका । अनुरागेङ्गिताद्युत्था, कथा का मस्य वर्णिता ॥ १ ॥” तथा “स्मितं न लक्षेण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्यैर्हृदयोपगूहनं, न कोटिकोट्याऽपि तदस्ति कामिनाम् ॥ १ ॥” इति इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथा चरित्रवर्णनरूपा वा, अर्थादिविनिश्चयाः - अर्थादिस्वरूपपरिज्ञानानि तानि च - " अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम् ॥ १ ॥” तथा – “धनदो धनार्थिनां धर्मः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org