________________
श्रीस्थानागसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः३ सू०१८८
॥१५५॥
वृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यं ग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्त्यं गच्छवासिन इति, अनुग्रहो-ज्ञानाद्युपकारः, तत्र आत्माऽनुग्रहोऽध्ययनादिप्रवृत्तस्य परानुग्रहो वाचनादिप्रवृत्तस्य तदुभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहा| दिप्रवृत्तस्येति, अनुशिष्टिः-अनुशासनम् , तत्र आत्मनो यथा-"बायालीसेसणसंकडंमि गहणंमि जीव! न हु छलिओ। इण्डिं जह न छलिज्जसि भुंजतो रागदोसेहिं ॥१॥" इति, (तथा विधेयमिति शेष इति), परानुशिष्टिर्यथा-"ता तंसि भाववेजो भवदुक्खनिपीडिया तुहं एते । हंदि सरणं पवन्ना मोएयव्वा पयत्तेणं ॥२॥” इति, तदुभयानुशिष्टिर्यथा “कहकहऽवि माणुसत्ताइ पावियं चरण पवररयणं च । ता भो एत्थ पमाओ कइयावि न जुजए अम्हं ॥१॥” इति, उपा-1 लम्भः-इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा, स चात्मनो यथा-"चोल्लंगदिलुतेणं दुलहं लहिऊण माणुसं जम्मं । जं न कुणसि जिणधर्म अप्पा किं वेरिओ तुज्झ? ॥१॥” इति, परोपालम्भो यथा-"उत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुम वच्छ! । उत्तमनाणगुणड्डो कह सहसा ववसिओ एवं? ॥१॥" इति, तदुभयोपालम्भो यथा-एंगस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ। दुक्खे ठवंति जे केवि ताण किं सासयं जीयं? ॥२॥" ति, 'एवं'मित्यादिना
१द्विचत्वारिंशदेषणासङ्कटे गहने जीव ! नैव छलितः । इदानीं यथा न छल्यसे भंजानो रागद्वेषाभ्याम् ॥१॥२ तत्त्वं तेषां भाववैद्यो(ऽसि) भवदुःखनिपी-10 डिता एते त्वां शरणं प्रपन्ना मोचयितव्या (दुःखात् ) प्रयत्नेन ॥२॥ ३ कथं कथमपि मनुष्यत्वादि प्राप्तं प्रवरं चारित्ररत्नं च तत् भो अत्र प्रमादो न कदापि युज्यतेऽस्माकम् ॥३॥ ४ भोजनादिदृष्टान्तैर्दुर्लभं मानुषं जन्म लब्ध्वा यज्जिनधर्म न करोषि कि आत्मंस्त्वमेव वैरी तव ॥१॥ ५वत्स । त्वं उत्तमकुलसंभूत उत्तमगुरुदीक्षित उत्तमज्ञानगुणात्यः कथमेवं सहसा व्यवसितोऽसि ॥ २॥ ६ एकस्य निजजीवितस्य कृते बहुका जीवकोटीः दुःखे स्थापयंति |ये केचित् तेषां कि शाश्वतं जीवितं ॥ ३ ॥
॥१५५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org