________________
HASOKARAN
पक्रमस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा-सचित्ताचित्तमिश्रद्रव्यभेदात् , तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदभेदभिन्नः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि-द्रव्यस्य गुणविशेषकरणं तस्मिन् सति, तद्यथा-घृताद्युपयोगेन पुरुषस्य वर्णादिकरणम् , एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनामपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्धक्यादिगुणापादनमिति, तथा वस्तुविनाशे च पुरुषादीनां खङ्गादिभिर्विनाश एवोपक्रम इति, एवमचित्तद्रव्योपक्रमः पद्मरागादिमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनं विनाशश्चेति, | मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति, तथा क्षेत्रस्य-शालिक्षेत्रादेः परिकर्म विनाशो वा क्षेत्रोपक्रमः, तथा कालस्य-चन्द्रोपरागादिलक्षणस्योपक्रमः-उपायेन परिज्ञानं कालोपक्रमः, तथा भावस्य प्रशस्ताप्रशस्तरूपस्योपायतः परिज्ञानमेव भावोपक्रमः, स चाप्रशस्तो डोडिनीगणिकाऽमात्यदृष्टान्तावसेयः, प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोपक्रम इति, एवं च धार्मिकस्य-संयतस्य यश्चारित्राद्यर्थ द्रव्यक्षेत्रकालभावानामुपक्रम उक्तस्वरूपः स धार्मिक एवोप-14 क्रमः, तथा अधार्मिकस्य-असंयतस्यासंयमार्थ यः सोऽधार्मिक एव, तथा धामिकाधार्मिकस्य-देशविरतस्य यः स धार्मिकाधाम्मिक इति, अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽह-तत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुप-15 क्रमो-वैहानसादिना विनाशः परिकर्म वा आत्मार्थ वा उपक्रमोऽन्यस्य वस्तुनः आत्मोपक्रम इति, तथा परस्य परार्थ वोपक्रमः परोपक्रम इति, तदुभयस्य-आत्मपरलक्षणस्य तदुभयाथै वोपक्रमस्तदुभयोपक्रम इति, एव'मिति उपक्रमसूत्रवत् आत्मपरोभयभेदेन वैयावृत्त्यादयो वाच्याः, व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं-भक्तादिभिरुपष्टम्भः, तत्रात्मवैया
RSSAGACARRORE
रक्षणस्य तदुभयमोऽन्यस्य वस्मनोऽनुकूलोपसण कस्य देशविरमक एवोप
dain Education International
For Personal & Private Use Only
www.jainelibrary.org