________________
नास्त्यन्तरं-व्यवधानं यस्याः साऽनन्तरा सा चासौ समुदानक्रिया चेति विग्रहः, प्रथमसमयवर्तिनीत्यर्थः, द्वितीयादिसमयवर्तिनी तु परम्परसमुदानक्रियेति, प्रथमाप्रथमसमयापेक्षया तु तदुभयसमुदानक्रियेति, 'मइअन्नाणकिरियत्ति | "अविसेसिया मइच्चिय सम्मदिहिस्स सा मइन्नाणं । मइअन्नाणं मिच्छादिहिस्स सुयंपि एमेव ॥ १॥त्ति [अविशे|षिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम् । मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव ॥१॥] मत्यज्ञानात् क्रिया-अनुष्ठानं मत्यज्ञानक्रिया, एवमितरे अपि, नवरं विभङ्गो-मिथ्यादृष्टेरवधिः स एवाज्ञानं विभङ्गाज्ञानमिति । व्याख्यातमक्रियामिथ्यात्वं, अविनयमिथ्यात्वव्याख्यानायाह-'अविणयेत्यादि, विशिष्टो नयो विनयः-प्रतिपत्तिविशेषः तत्प्रतिषे. धादविनयः, देशस्य-जन्मक्षेत्रादेस्त्यागो देशत्यागः स यस्मिन्नविनये प्रभुगालीप्रदानादावस्ति स देशत्यागी, निर्गत | आलम्बनाद्-आश्रयणीयात् गच्छकुटुम्बकादेरिति निरालम्बनस्तद्भावो निरालम्बनता-आश्रयणीयानपेक्षत्वमिति भावः, पुष्टालम्बनाभावेन वोचितप्रतिपत्तिभ्रंशः, प्रेम च द्वेषश्च प्रेमद्वेषं नानाप्रकारं प्रेमद्वेषं नानाप्रेमद्वेषमविनयः, इयमत्र भावना-आराध्यविषयमाराध्यसंमतविषयं वा प्रेम तथाऽऽराध्यासम्मतविषयो द्वेष इत्येवं नियतावेतौ विनयः स्यात्, उक्तं च-"सरुषि नतिः स्तुतिवचनं, तदभिमते प्रेम तविपि द्वेषः । दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम् ॥१॥" इति, नानाप्रकारौ च तावाराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेनानियतविषयादविनय इति, अज्ञानमिथ्यात्वमित उच्यते -'अन्नाणे'त्यादि, ज्ञानं हि द्रव्यपर्यायविषयो बोधस्तन्निषेधोऽज्ञानं तत्र विवक्षितद्रव्यं देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषात्, यदा च सर्वतस्तदा सर्वाज्ञानं, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति, अ
योचितप्रायसंमतच तदभिमते विशेषानपाधोऽज्ञान तपर्यायता
dan Education International
For Personal & Private Use Only
www.jainelibrary.org