________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ १५३ ॥
अन्नाणकिरिया २, पओगकिरिया तिविधा, पं० तं० - मणपओगकिरिया वइपओगकिरिया कायपओगकिरिया ३, समुदाणकिरिया तिविधा पं० तं० – अणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिता ४, अन्नाणकिरिता तिविधा पं० तं० – मतिअन्नाणकिरिया सुतअन्नाणकिरिया विभंगअन्नाणकिरिया ५, अविणते तिविहे पं० तं० – देसच्चाती निरालंबणता नाणापेज्जदोसे ६, अन्नाणे तिविधे पं० तं०—देसण्णाणे सव्वण्णाणे भावन्नाणे ७ ( सू० १८७ ) 'तिविधे मिच्छत्ते' इत्यादि, सूत्राणि सप्त सुगमानि, नवरं मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षितं, प्रयोगक्रियादीनां वक्ष्यमाणतद्भेदानां असम्बद्ध्यमानत्वात्, ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रूपता मिथ्यादर्शनानाभोगादिजनितो विपर्यासो दुष्टत्वमशोभनत्वमिति भावः, 'अकिरिय'त्ति नञिह दुःशब्दार्थो यथा अशीला दुःशीलेत्यर्थः, ततचाक्रिया- दुष्टक्रिया मिथ्यात्वाद्युपहतस्यामोक्षसाधकमनुष्ठानं, यथा मिथ्यादृष्टेर्ज्ञानमप्यज्ञानमिति एवमविनयोऽपि, अज्ञानम् - असम्यग्ज्ञानमिति, अक्रिया हि अशोभना क्रियैवातोऽक्रिया त्रिविधेत्यभिधायापि प्रयोगेत्यादिना क्रियैवोक्तेति, तत्र वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते - व्यापार्यत इति प्रयोगो - मनोवाक्काय लक्षणस्तस्य क्रिया - करणं व्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोगः - मनःप्रभृतिभिः क्रियते बध्यत इति प्रयोगक्रिया कर्मेत्यर्थः, सा च दुष्टत्वादक्रिया, अक्रिया च मिथ्यात्वमिति सर्वत्र प्रक्रमः, 'समुदाणं'ति प्रयोगक्रिययैकरूपतया गृहीतानां कर्म्मवर्गणानां समिति-सम्यक् प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च आदानं-स्वीकरणं समुदानं निपातनात्तदेव क्रिया-कम्र्मेति समुदानक्रियेति, अज्ञानात् वा चेष्टा कर्म्म वा सा अज्ञानक्रियेति २, प्रयोगक्रिया त्रिविधा व्याख्यातार्था ३,
Jain Education International
For Personal & Private Use Only
३ स्थान
काध्ययने
उद्देशः ३
सू० १८७
॥ १५३ ॥
www.jainelibrary.org