________________
-
सा(अन)वधारणतयैकेन धर्मेणेति नयाः शब्दप्रधाना नयाः शब्दनयाः, ते च त्रयः-शब्दसमभिरूढैवंभूताख्याः, तत्र शब्दनमभिधानं शब्द्यते वा यः शब्द्यते वा येन वस्तु स शब्दः, तदभिधेयविमर्शपरो नयोऽपि शब्द एवेति, सच भावनिक्षेपरूपं वर्तमानमभिन्नलिङ्गवाचकं बहुपर्यायमपि च वस्त्वभ्युपगच्छतीति, वाचकं वाचकं प्रति वाच्यभेदं समभिरोहयति -आश्रयति यः स समभिरूढः, स ह्यनन्तरोक्तविशेषणस्यापि वस्तुनः शक्रपुरन्दरादिवाचकभेदेन भेदमभ्युपगच्छति घटपटादिवदिति, यथा शब्दार्थो घटते-चेष्टत इति घट इत्यादिलक्षणः 'एव'मिति तथाभूतः सत्यो घटादिरों नान्यथेवेवमभ्युपगमपर एवंभूतो नयः, अयं हि भावनिक्षेपादिविशेषणोपेतं व्युत्पत्त्यर्थाविष्टमेवार्थमिच्छति, जलाहरणादिचेष्टावन्तं घटमिवेति ७, तत्राद्यत्रयस्याशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रतिष्ठितत्वं नरकाणामिति मतं, चतुर्थस्य शुद्धत्वात् आकाशस्य च गच्छतां तिष्ठतां वा सर्वभावानामैकान्तिकाधारत्वात् भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वमिति, त्रयाणां तु शुद्धतरत्वात् सर्वभावानां स्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्च आत्मप्रतिष्ठितत्वमिति, न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनापि भवन्तीति, यत आह-"वत्थु वसइ सहावे सत्ताओ
चेयणव्व जीवम्मि । न विलक्खणत्तणाओ भिन्ने [ अन्यत्र > छायातवे चेव ॥१॥” इति, नरकेषु च मिथ्यात्वाद् 8 गतिर्जन्तूनां भवतीति अथवा नया मिथ्यादृश इति सम्बन्धान्मिथ्यात्वस्वरूपमाह
तिविधे मिच्छत्ते पं० त०–अकिरिता अविणते अन्नाणे १, अकिरिया तिविधा, पं० सं०-पओगकिरिया समुदाणकिरिया १जीवे चेतनेव वस्तु खभावे वसति सत्त्वात् छायातपाविवा वैलक्षण्यादन्यत्र न.
C%CC%%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org