________________
श्रीस्थानाङ्गसूत्रवृत्तिः
NAGAR
॥१५२॥
तिविहा पोग्गला पं० २०-पओगपरिणता मीसापरिणता वीससापरिणता, तिपतिट्ठिया णरगा पं० तं०-पुढविपति
|३ स्थानट्ठिता आगासपतिहिता आयपइट्ठिआ, णेगमसंगहववहाराणं पुढविपइट्ठिया उजुसुतस्स आगासपतिढ़िया तिण्हं सरण
काध्ययने ताणं आयपतिट्ठिया ॥ (सू० १८६)
उद्देशः३ प्रयोगपरिणताः-जीवव्यापारेण तथाविधपरिणतिमुपनीताः, यथा पटादिषु कादिषु वा, 'मीस'त्ति प्रयोगविन
सू० १८६ साभ्यां परिणताः, यथा पटपुद्गला एव प्रयोगेण पटतया विस्रसापरिणामेन चाभोगेऽपि पुराणतयेति, विस्रसा-स्वभावः तपरिणता अभ्रेन्द्रधनुरादिवदिति । पुद्गलप्रस्तावाद्विस्रसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाह'तिपइहिए'त्यादि, स्फुटं, केवलं नरका-नारकावासा आत्मप्रतिष्ठिताः-स्वरूपप्रतिष्ठिताः। तत्प्रतिष्ठानं नवैराह'णेगमेत्यादि, नैकेन-सामान्यविशेषग्राहकत्वात् तस्यानेकेन ज्ञानेन मिनोति-परिच्छिनत्तीति नैकमः, अथवा निगमा:|निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः, अथवा नैको गमः-अर्थमार्गो यस्य स प्राकृतत्वेन नैगमः १, संग्रहणं भेदानां सङ्गृह्णाति वा तान् संगृह्यन्ते वा ते येन स सङ्ग्रहो-महासामान्यमात्राभ्युपगमपर इति २, व्यवहरणं व्यवहियते वा स व्यवड़ियते वा तेन विशेषेण वा सामान्यमवहियते-निराक्रियतेऽनेनेति लोकव्यवहारपरो वा व्यवहारोविशेषमात्राभ्युपगमपरः ३, एतेषां नयानां मतेनेति गम्यं, ऋजु-अवक्रमभिमुखं श्रुतं-श्रुतज्ञानं यस्येति ऋजुश्रुतः, ऋजु 8 वा-अतीतानागतवक्रपरित्यागाद्वर्तमानं वस्तु सूत्रयति-मयतीति ऋजुसूत्रः-स्वकीयं साम्प्रतं च वस्तु नान्यदित्यभ्युपगमपरः, शब्द्यते-अभिधीयतेऽभिधेयमनेनेति शब्दो-वाचको ध्वनिः, नयन्ति-परिच्छिन्दन्त्यनेकधर्मात्मकं सद्वस्तु
18॥१५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org