________________
विहिपडिसेहाणुगं तत्थ"त्ति तत्र तद्बाह्यचारित्रापेक्षमवगन्तव्यमिति, अथवा ज्ञानादौ विषये यो व्यवसायो-बोधोऽनुष्ठानं वा स विषयभेदात् त्रिविध इति, सामा(म)यिकता चास्य सम्यग्मिथ्याशब्दलाञ्छितस्य ज्ञानादित्रयस्य सर्वसमयेष्वपि भावादिति १०, अर्थस्य-राजलक्ष्म्यायोनिः-उपायोऽर्थयोनिः साम-प्रियवचनादि दण्डो-वधादिरूपः परनिग्रहः भेदो| जिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिः, क्वचित्तु दण्डपदत्यागेन प्रदानेन सह तिस्रोऽर्थयोनयः पठ्यन्ते, भ
वन्ति चात्र श्लोकाः-"परस्परोपकाराणां, दर्शनं १ गुणकीर्तनम् २ । सम्बन्धस्य समाख्यानश्मायत्याः संप्रकाशनम् ४ &॥१॥" अस्मिन्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननमायतिसंप्रकाशनमिति, "वाचा पेशलया साधु तवाहमिति 4
चार्पणम् ५। इति सामप्रयोगज्ञैः, साम पञ्चविधं स्मृतम् ॥१॥" वधश्चैव १ परिक्लेशो २, धनस्य हरणं तथा ३ । इति दण्डविधान र्दण्डोऽपि त्रिविधः स्मृतः॥२॥ स्नेहरागापनयनं १, संहर्षोत्पादनं तदा २ । सन्तर्जनं च ३ भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः॥३॥” संहर्षः-स्पर्द्धा सन्तर्जनं च-अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिकरूपमिति, प्रदानलक्षणमिदम् –“यः सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदानं तथा तस्य, गृहीतस्यानुमोदनम् ॥१॥ द्रव्यदानमपूर्व च ३, स्वयंग्राहप्रवर्त्तनम् ४ । देयस्य प्रतिमोक्षश्च ५, दानं पञ्चविधं स्मृतम् ॥१॥धनोत्सर्गो-धनस|म्पत् स्वयंग्राहप्रवर्त्तनम्-परस्वेषु देयप्रतिमोक्ष-ऋणमोक्ष इति, प्रयोगश्चासामेवम्-"उत्तम प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, समं तुल्यपराक्रमैः॥१॥” इति । अनन्तरं जीवा धर्मतः प्ररूपिताः, इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह
HERE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org