________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ १४९ ॥
'उवकरणे' त्यादि, एकं वस्त्रं जिनकल्पिकादेरेव, एवं पात्रमपि, 'एंगं पायं जिणकप्पियाण' मिति वचनादिति, तथा 'चियतेणं' संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा 'चियत्तस्स वा' संयमिनां संमतस्य उपधेः- रजोहरणादिकस्य 'साइज्जणय'त्ति सेवा 'चियत्तोवहिसाइज्जणय'त्ति ७ । 'चियत्तेणे 'ति प्रागुक्तमेतद्विपर्ययभेदान् सकलानाह'तओ' इत्यादि स्पष्टं, किन्तु अहिताय-अपथ्याय असुखाय - दुःखाय अक्षमाय-अयुक्तत्वाय अनिःश्रेयसाय - अमोक्षाय अनानुगामिकत्वाय-न शुभानुबन्धायेति, कूजनता - आर्त्तस्वरकरणं कर्करणता - शय्योपध्यादिदोषोद्भावनगर्भ प्रलपनं अपध्यानता - आर्त्तरौद्रध्यायित्वमिति ८, उक्तविपर्ययसूत्रं व्यक्तं ९, निर्ग्रन्थानामेव परिहर्त्तव्यं त्रयमाह - 'तओं' इत्यादि, शल्यते - वाध्यते अनेनेति शल्यं, द्रव्यतस्तोमरादि भावतस्तु इदं त्रिविधं - माया - निकृतिः सैव शल्यं मायाशल्यं १, एवं सर्वत्र, नवरं नितरां दीयते -लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवर्व्यादिप्रार्थनपरिणामनिशिता सिनेति निदानं मिथ्या विपरीतं दर्शनं मिथ्यादर्शन मिति १० । निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह - 'तिही' त्यादि, सङ्क्षिप्ता - लघूकृता विपुलापि - विस्तीर्णाऽपि सती अन्यथाऽऽदित्य बिम्बवत् दुर्दर्शः स्यादिति तेजोलेश्या - तपोविभूतिजं तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स सङ्क्षिप्तविपुलतेजोलेश्यः आतापनानांशीतादिभिः शरीरस्य सन्तापनानां भाव आतापनता शीतातपादिसहनमित्यर्थस्तया 'क्षान्त्या' क्रोधनिग्रहेण क्षमा-मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा तया, अपानकेन पारणककालादन्यत्र 'तपःकर्म्मणा' षष्ठादिनेति, अभिधीयते च २१ एक पात्रं जिनकल्पिकानाम्.
Jain Education International
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ३
सू० १८२
॥ १४९ ॥
www.jainelibrary.org