________________
A
ङ्गसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः३ सू०१८२
॥१४८॥
भाष्यश्लोकः-"भुजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ । जहन्नोवहडं तं तु, हत्थस्स परियत्तणा ॥१॥" इति, तथा यच्च परिवेषकः स्थानादविचलन् संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रक्रमः, श्लोकोऽत्र-“अह साहीरमाणं तु, बढ्तो [परिवेषयन्नित्यर्थः> जो उ दायओ। दलेन्जाविचलिओ तत्तो, छट्ठी एसावि एसणा ॥१॥” इति, तथा यच्च भक्तमास्यके-पिठरादिमुखे क्षिपति तच्चावगृहीतमिति, एवं चात्र वृद्धव्याख्या-कूरमवहादननिमित्तं कलिंजादिभाजने विशालोत्तानरूपे क्षिप्तं ततो भाक्तिकेभ्यो दत्तं ततो भुक्तशेष यद्भूयः पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती वा प्रकाशमुखे भाजने तत् तृतीयमवगृहीतं, श्लोकोऽत्र-"भुत्तसेसं तु जं भूओ, छुन्भंती पिठरे दये । संवटुंती व अन्नस्स, आसगंमि पगासए ॥१॥” इति, ननु आस्ये-मुखे यत् प्रक्षिपतीति मुख्यार्थे सति किं पिठरकादिमुखे इति व्याख्यायत इति !, उच्यते आस्यप्रक्षेपव्याख्यानमयुक्तं, जुगुप्साभावादिति, आह च"पॅक्खेवए दुगुंछा, आएसो कुडमुहाईसु"न्ति ५। अवमम्-ऊनमुदरं-जठरं यस्य सोऽवमोदरः, अवमं वोदरं अवमोदरं तद्भावोऽवमोदरता प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणमवमोदरिका, व्युसत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां, शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्ताग्र-
१ मुंजमानस्य उत्क्षिप्तं प्रतिषिद्धं तच्च तेन तु । जघन्योपहृतं तत्तु हस्तस्य परिवर्तनात् ॥१॥ २ अथ संहियमानमेव वेषकः यो वेषयन् दद्यादचलितस्ततः | षष्ट्येषाऽप्येषणा ॥१॥ ३ भुक्तशेषन्तु यद् भूयः क्षिपन्ती पिठरे दद्यात् । परिवेषयन्ती वान्यस्य आस्ये प्रकाशे ॥ १॥ ४ (मुखे) प्रक्षेपे जुगुप्सा पिठरादिमुखेवादेशः (जुगुप्सायाः अभावात् ).....
RARASIGAISRASKUSHEA
॥१४८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org