________________
काञ्जिकं शुद्धविकटम्-उष्णोदकं ३, उपहृतमुपहितम् , भोजनस्थाने ढौकितं भक्तमिति भावः, फलिक-प्रहेणकादि, |तच्च तदुपहृतं चेति फलिकोपहृतं अवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, यदाह व्यवहारभाष्ये-"फलियं पहेणगाई वंजणभक्खेहिं वाऽविरहियं जं। भोत्तुमणस्सोवहियं पंचमपिंडेसणा एस ॥१॥” इति, तथा शुद्धम्-अलेपकृतं शुद्धौदनं च, तच्च तदुपहृतं चेति शुद्धोपहृतं, एतच्चाल्पलेपाभिधानचतुर्थेषणाविषयभूतमिति, तथा संसृष्टं नाम-भोक्तुकामेन गृहीतकूरादौ क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहृतं, इदं चतुर्थेषणात्वेन भजनीयं, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा-"सुद्धं च अलेवकडं अहव ण सुद्धोदणो भवे सुद्धं । संसह आउत्तं [भोक्तुमारब्धमित्यर्थः > लेवाडमलेवर्ड वावि ॥१॥” इति, इह च त्रये एकद्वित्रिसंयोगैः सप्ताभिग्रहवन्तः साधवो भवन्तीति ४। अवगृहीतं-नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि 'य'दिति भक्तम् , चकाराः समुच्चयार्थाः अवगृह्णाति-आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी पिण्डेषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः कूरं गृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन च भणितं-मा देहि, अत्रावसरे प्राप्तेन साधुना धर्मलाभितं, ततः परिवेषको भणति-प्रसारय साधो! पात्रं, ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम् , इह च संयतप्रयोजने गृहस्थेन हस्त एवं परिवर्तितो नान्यत् गमनादि कृतमिति जघन्यमाहृतजातमिति, इह च व्यवहार
१ फलिकं प्रहेणकादि यद् व्यञ्जनभश्यैर्वा विरहितं । भोक्तुमनस उपहृतं पंचमी पिंडैषणैषा ॥१॥ २ शुद्धं चालेपकृतं अथवा शुद्धोदनः शुद्धं भवेत्संसृष्टं आयुक्तं (भोक्तुमारब्धं) लेपकृतमलेपकृतं वापि ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org