________________
अधुनोपपन्नो देवः, क्वेत्याह- देवलोकेष्विति, इह च बहुवचनमेकस्यैकदा अनेकेषूत्पादासम्भवादेकार्थे दृश्यं वचनव्यत्ययाद्देवलोकानेकत्वोपदर्शनार्थं वा अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, 'इच्छेद्' अभिलषेत्, पूर्वसङ्गतिकदर्शनाद्यर्थं मानुषाणामयं मानुषस्तं 'हवं' शीघ्रं 'संचाएइ'त्ति शक्नोति, दिवि - देवलोके भवा दिव्यास्तेषु कामौ च-शब्दरूपलक्षणौ भोगाश्च - गन्धरसस्पर्शाः कामभोगास्तेषु, अथवा काम्यन्त इति कामाः - मनोज्ञास्ते च ते भुज्यन्त इति भोगाः - शब्दादयस्ते च कामभोगास्तेषु मूच्छित इव मूच्छितो - मूढः, तत्स्वरूपस्यानित्यत्वादेर्विबोधाक्षमत्वात्, गृद्धः - तदाकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जूभिः सन्दर्भित इत्यर्थः, अभ्युपपन्नः - आधिक्येनासक्तोऽत्यन्ततन्मना इत्यर्थः, 'नो आद्रियते' न तेष्वादरवान् भवति 'नो परिजानाति' एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थ बध्नाति - एतैरिदं प्रयोजनमिति न निश्चयं करोति, तथा तेषु नो निदानं प्रकरोति - एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम् - अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तु स्थिरीभवत्वित्येवंरूपं स्थित्या वा - मर्यादया विशिष्टः प्रकल्पः - आचार आसेवेत्यर्थस्तं 'प्रकरोति' कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येकं कारणं १, तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्चिछतादिविशेषणो भवति ततस्तस्य मानुष्यकं - मनुष्यविषयं प्रेम - स्नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नं, दिवि भवं दिव्यं - स्वर्गगतवस्तुविषयं सङ्क्रान्तं तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसङ्क्रान्तिरिति द्वितीयम् २, तथाऽसौ देवो यतो दिव्यकामभोगेषु मूच्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णं'ति तस्य देवस्य ' एवं 'ति एवंप्रकारं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org