SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १४३ ॥ चित्तं भवति, यथा 'इयहि ति इत इदानीं न गच्छामि, 'मुहुत्तं'ति मुहूर्त्तेन गच्छामि कृत्यसमाप्तावित्यर्थः, 'तेणं कालेणं'ति येन तत्कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तो भवति तेन कालेन गतेनेति शेषः, तस्मिन् वा काले गते, शब्दो वाक्यालङ्कारार्थः, अल्पायुषः स्वभावादेव मनुष्या मात्रादयो यद्दर्शनार्थमाजिगमिषति ते कालधर्मेण - मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्त्तव्यता नाम तृतीयमिति ३, 'इच्चेएही' त्यादिनिगमनं | ३ || देवकामेषु कश्चिदमूच्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवंभूतं भवति - 'आचार्यः' प्रतिबोधकप्रव्राजकादिः अनुयोगाचार्यो वा 'इतिः' एवंप्रकारार्थो वाशब्दो विकल्पार्थः, प्रयोगस्त्वेवं मनुष्यभवे ममाचार्योऽस्तीति वा, उपाध्यायः - सूत्रदाता सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, उक्तं च- "तवसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ । असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ ॥ १ ॥” इति, प्रवर्त्तिव्यापारितान् साधून् संयमयोगेषु सीदतः स्थिरीकरोति इति स्थविरः उक्तं च- "थिरकरणा पुण थेरो पवत्तिवावारिस अत्थेसु । जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ १ ॥” इति गणोऽस्यास्तीति गणी - गणाचार्यः, गणधरो - जिनशिष्यविशेषः आर्यिकाप्रतिजागरको वा साधुविशेषः, उक्तं च - “पियधम्मे दढधम्मे संविग्गो उज्जुओ य तेयंसी । संगहुवग्गहकुसलो सुत्तत्थविक गणाहिवई ॥ १ ॥” गणस्यावच्छेदो - विभागोऽंशोऽस्यास्तीति, यो हि गणांश १ तपः संयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति । असहं च निवर्त्तयति गणतप्तिकरः प्रवर्त्ती तु ॥ १ ॥ २ स्थिरकरणात्पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु । यो यत्र सीदति यतिस्सद्वलस्तं स्थिरं करोति ॥ १ ॥ ३ प्रियधर्मा दृढधर्मा संविग्न ऋजुकश्च तेजस्वी । संप्रहोपग्रहकुशलः सूत्रार्थविद् गणाधिपतिः ॥ १ ॥ Jain Education International For Personal & Private Use Only ३ स्थानकाध्ययने उद्देशः ३ सू० १७७ ॥ १४३ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy