SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ म्पन्नं यतिं तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनं वा परित्यजति यत् साऽऽचार्यविहानिः उक्तं च - " जैवसंपन्नो जं कारणं तु तं कारणं अपूरिंतो | अहवा समाणियंमी सारणया वा विसग्गो वा ॥ १ ॥” इति, एवमुपाध्यायगणिनोरपीति ॥ इयमनन्तरं विशिष्टा साधुकायचेष्टा त्रिस्थानकेऽवतारिता, अधुना तु वचनमनसी तत्पर्युदासौ च तत्रावतारयन्नाह - तिविहे वयणे पं० तं०—तव्वयणे तदन्नवयणे णोअवयणे, तिविहे अवयणे पं० तं०—णोतव्वयणे णो तदन्नवयणे अवयणे । तिविहे मणे पं० तं० तम्मणे तयन्नमणे णोअमणे, तिविहे अमणे पं० सं०—णोतंमणे णोतयन्नमणे, अमणे ( सू० १७५ ) सूत्रचतुष्टयम्, अस्य गमनिका - तस्य - विवक्षितार्थस्य घटादेर्वचनं भणनं तद्वचनं, घटार्थापेक्षया घटवचनवत् तस्माद् - विवक्षितघटादेरन्यः - पटादिस्तस्य वचनं तदन्यवचनम्, घटापेक्षया पटवचनवत्, नोअवचनम् - अभणननिवृत्तिर्वचनमात्रं डित्थादिवदिति, अथवा सः - शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थः, ज्वलनतपनादिवत्, तथा तस्मात् - शब्दव्युत्पत्तिनिमित्तधर्म्मविशिष्टादन्यः - शब्दप्रवृत्तिनिमित्तधर्म्मविशिष्टोऽर्थ उच्यते | अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत्, उभयव्यतिरिक्तं नोअवचनं, निरर्थकमित्यर्थो, डित्थादिवत्, अ थवा तस्य- आचार्यादेर्वचनं तद्वचनं तद्व्यतिरिक्तवचनं तदन्यवचनं - अविवक्षितप्रणेतृविशेषं नोअवचनं वचनमात्रमित्यर्थः, त्रिविधवचनप्रतिषेधस्त्ववचनं, तथाहि - नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचन १ यत्कारणमाश्रित्योपसंपन्नस्तत्कारणमपूरयन् अथवा समानिते (संपूर्ण) सारणता च विसर्गो वा ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy