________________
"पंचविहं आयारं आयरमाणा तहा पयासंता। आयारं दंसेन्ता आयरिया तेण वुचंति ॥१॥" तथा "सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अत्थं वाएइ आयरिओ ॥२॥" तद्भावस्तत्ता तया, उत्तरत्र ग
णाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः, तथा उपेत्याधीयतेऽस्मादित्युपाध्यायः, आह च-"संमैत्तनाणदसणजुत्तो सुत्तत्थत& दुभयविहिन्नू । आयरियठाणजोगो सुत्तं वाएइ उवझाउ ॥१॥” इति ॥ तद्भाव उपाध्यायता तया, तथा गणः-साधुस
मुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौ गणी-गणाचार्यस्तद्भावस्तत्ता तया, गणनायकतयेति भाव इति, तथा समितिसङ्गता औत्सर्गिकगुणयुक्तत्वेनोचिता आचार्यादितया अनुज्ञा समनुज्ञा, तथाहि-अनुयोगाचार्यस्यौत्सर्गिकगुणाः "तैम्हा वयसंपन्ना कालोचियगहियसयलसुत्तत्था । अणुजोगाणुण्णाए जोगा भणिया जिणिदेहिं ॥१॥ इहपर(रहा)मोसावाओ पवयणखिसा य होइ लोयंमि । सेसाणवि गुणहाणी तित्थुच्छेओ य भावेणं ॥२॥” इति, गणाचार्योऽप्यौत्सर्गिक एवं| "सुत्तत्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपन्नो गंभीरो लद्धिमंतो य ॥१॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी य ॥ एवंविहो उ भणिओ गणसामी जिणवरिंदेहिं ॥२॥" अथैवंविधगुणाभावे अनुज्ञाया |
१पंचविधमाचारं आचरन्तस्तथा प्रकाशयन्तः आचारं दर्शयन्त आचार्यास्तेन उच्यन्ते ॥१॥ सूत्रार्थ विलक्षणयुक्तो गच्छस्याधारभूतश्च । गणतप्तिविप्रमुक्तोऽर्थे वाचयत्याचार्यः ॥ २॥ २ सम्यक्त्वज्ञानदर्शनयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः ॥ १॥ ३ तस्माद्तसंपन्नाः गृमाहीतकालोचितसकलसूत्रार्थाः । अनुयोगानुज्ञाया योग्या भणिता जिनेन्द्रः ॥१॥ इतरथा तु मृषावादः प्रवचननिन्दा च भवति लोके । शेषाणामपि गुणहानिस्तीर्थोच्छेदश्चावश्यंतया ॥२॥ ४ सूत्रार्थयोर्निर्मातः प्रियदृढधर्मानुवर्तनाकुशलः । जातिकुलसंपन्नो गंभीरो लब्धिमांश्च ॥१॥ संग्रहोपग्रहनिरतः कृतकरणः | प्रवचनानुरागी च । एवंविध एव भणितो गणखामी जिनवरेन्द्रः ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org