________________
श्रीस्थानाङ्गसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः ३ सू०१७४
॥१३९॥
श्रद्धानं यस्मिन् अस्ति स श्राद्धः-श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते 'निशम्य' अवधार्य, तथा तिचंति एक द्वितीयं यावत् तृतीयं 'मोसं'ति मृषावादं अकल्पग्रहणपार्श्वस्थदानादिना सावधविषयप्रतिज्ञाभङ्गालक्ष- णमाश्रित्येति गम्यते, 'आवर्त्तते' निवर्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावात् प्रायश्चित्तं चास्योचितं दीयते, चतुर्थं त्वाश्रित्य प्रायो नो आवर्त्तते-तं नालोचयति, तस्य दर्पत एव भावादिति, आलोचनेऽपि प्रायश्चित्तस्यादानमस्येति, अतश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुर्वन्नातिक्रामतीति प्रकृतम्, उक्तं च “एगं व दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं । आउद्भृतेऽवि तओ परिणे तिण्हं विसंभोगो ॥१॥” इति, एतच्चूर्णिः-से संभोइओ असुद्धं गिण्हतो चोइओ भणइ-संता पडिचोयणा, मिच्छामि दुक्कडं, ण पुणो एवं करिस्सामो, एवमाउट्टो जमावन्नो तं पायच्छित्तं दाउं संभोगो । एवं बीयवाराएवि, एवं तइयवाराएवि, तइयवाराओ परओ चउत्थवाराए तमेवाइयारं सेविऊण आउटुंतस्सवि विसंभोगों' इति, इह चाद्यं स्थानद्वयं गुरुतरदोषाश्रयं, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयं, तत्र हि चतुर्थवेलायां स विधीयत इति । 'अणुन्न'त्ति, अनुज्ञानमनुज्ञाअधिकारदानं, आचर्यते-मर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पञ्चप्रकारे साधुरित्याचार्यः, आह च
१ एकशो वा द्विकृत्वनिकृत्वो वा आवर्तमानस्य भवति प्रायश्चित्तं आवर्तमानस्यापि ततस्त्रयाणां परतः विसंभोगः ॥१॥ २ स सांभोगिकोऽशुद्धं गृहंश्वोदितो भणति सती प्रतिचोदना मिथ्या मे दुष्कृतं न पुनरेवं करिष्यामि एवमावृत्ते यदापन्नस्तत् प्रायश्चित्तं दत्त्वा संभोगः । एवं द्वितीयवारायामपि, एवं तृतीयवारायामपि, तृतीयवारायाः परतश्चतुर्थवारायां तमेवातिचार सेवयित्वा आवर्तमानस्यापि विसंभोगः.
।॥१३९॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org