________________
उपेक्षक इत्यर्थः स्यादिति २, प्रेरणाया अविषये उपेक्षणासामर्थ्य च ततः स्थानादुत्थाय 'आय( आए )त्ति आत्मना ए-18 कान्त-विजनं अन्त-भूविभागमवक्रामेत्-गच्छेत् । निर्ग्रन्थस्य ग्लायतः-अशक्नुवतः, तृड्वेदनादिना अभिभूयमानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातं । 'तओं'त्ति तिस्रः 'वियड'त्ति पानकाहारः, तस्य दत्तयः एकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुम्-आश्रयितुं वेदनोपशमायेति, उत्कर्षः-प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वोत्कर्षा उत्कृष्टत्यर्थः, प्रचुरपानकलक्षणा, यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यया सकृदेव वितृष्णो भवति यापनामा वा लभते, अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि-कलमकाञ्जिकावश्रावणादेः द्राक्षापानकादेर्वा प्रथमा १ षष्ठि-16 का[दि]काञ्जिकादेमध्यमार तृणधान्यकाञ्जिकादेरुष्णोदकस्य वा जघन्येति, देशकालस्वरुचिविशेषाद्वोत्कर्षादि नेयमिति !
तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिकमति, तं०-सतं वा दहुँ, सडस्स वा निसम्म,
तचं मोसं आउट्टति चउत्थं नो आउट्टति (सू० १७३) तिविधा अणुन्ना पं० २०-आयरियत्ताए उवज्झायत्ताए गणि__ताते । तिविधा समणुन्ना पं० तं०-आयरियत्ताते उवज्झायत्ताते गणित्ताते, एवं उवसंपया, एवं विजणा (सू० १७४)
'साहमिय'ति समानेन धर्मेण चरतीति साधर्मिकस्तं सम्-एकत्र भोगो-भोजनं सम्भोगः-साधूना समानसामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स साम्भोगिकः तं विसम्भोगो-दानादिभिरसंव्यवहारः स यस्यास्ति स विसम्भोगिकस्तं कुर्वन् नातिकामति-न लवयत्याज्ञां सामायिक वा विहितकारित्वादिति, स्वयमात्मना साक्षात् दृष्ट्वा सम्भोगिकेन क्रियमाणामसंभोगिकदानग्रहणादिकामसमाचारी, तथा 'सहस्स'त्ति श्रद्धा-18
dain Education International
For Personal & Private Use Only
www.jainelibrary.org