________________
ASHEMAMALACESCAMPARAN
माणप्रकारमाख्यान्ति सामान्यतो भाषन्ते विशेषतः क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेन उक्तमिति, अथवा आख्यान्ति ईषद् भाषन्ते व्यक्तवाचा प्रज्ञापयन्ति उपपत्तिभिर्बोधयन्ति प्ररूपयन्ति प्रभेदादिकथनत इति, किंतदित्याह-कथं' केन प्रकारेण 'श्रमणानां निर्ग्रन्थानां मते इति शेषः क्रियते इति क्रिया-कर्म सा 'क्रियते भवति दुःखायेति विवक्षयेति प्रश्नः, इह तु चत्वारो भङ्गाः, तद्यथा-कृता क्रियते-विहितं सत्कर्म दुःखाय भवतीत्यर्थः १,एवं कृतान क्रियते २ अकृता क्रियते ३ अकृता न क्रियते ४ इति, एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टस्तं शेषभङ्गनिराकरणपूर्वकमभिधातुमाह'तत्थ'त्ति तेषु चतुर्यु भङ्गकेषु मध्ये प्रथम द्वितीयं चतुर्थ च न पृच्छन्ति, एतत्रयस्यात्यन्तं रुचेरविषयतया तत्प्रश्नस्याप्यप्रवृत्तेरिति, तथाहि-'याऽसौ कृता क्रियते' यत्तत्कर्म कृतं सद्भवति नो तत्ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निर्ग्रन्थमतत्वेन चासंमतत्वादिति, 'तत्र याऽसौ कृता नो क्रियते' इति तेषु-भङ्गकेषु मध्ये यत्तत्कर्म
कृतं न भवति नो तत्पृच्छन्ति, अत्यन्तविरोधेनासम्भवात् , तथाहि-कृतं चेत् कर्म कथं न भवतीत्युच्यते ?, न भवति साचेत् कथं कृतं तदिति, कृतस्य कर्मणोऽभवनाभावात् , 'तत्र' तेषु 'याऽसावकृता' यत्तदकृतं कर्म 'नो क्रियते न
भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्मणः खरविषाणकल्पत्वादिति, अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकावतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्संमत इति तं पृच्छन्ति, अत एवाह-तत्र 'याऽसावकृता /क्रियते' यत्तदकृतं-पूर्वमविहितं कर्म भवति-दुःखाय सम्पद्यते तां पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, पृच्छतां चायमभिप्रायो-यदि निर्ग्रन्था अपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org