SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीना त्रयोदशानामपि पदाना सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यक्षु मनुष्येषु च तत्सम्भवात् तदतिदेशमाह-'एव'मित्यादि, यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदश पदानि दिक्त्रये अभिहितान्येवं पञ्चेन्द्रियतिर्यडमनुष्येष्विति भावः, एवं चैतानि षड्रिंशतिः सूत्राणि भवन्तीति ॥ अथैषां नारकादिषु कथमसम्भव इति?, उच्यते, नारकादीनां द्वाविंशतेजीवविशेषाणां नारकदेवेषूपादाभावादूर्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्यया अवध्यादिप्रत्यक्षरूपा दिक्त्रये न सन्त्येव, भवप्रत्ययावधिपक्षे तु नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयः वैमानिका अधोऽवधय एकेन्द्रियविकलेन्द्रियाणां त्ववधिस्त्येिवेति । यथोक्तानि च गत्यादिपदानि बसानामेव सम्भवन्तीति सम्बन्धात्रसान्निरूपयन्नाह तिविहा तसा पं० २० तेउकाइया वाउकाइया उराला तसा पाणा, तिविधा थावरा, पं० सं०-पुढविकाइया आउकाइया वणस्सइकाइया (सू० १६४) | 'तिविहे'त्यादि स्पष्टं, किन्तु त्रस्यन्तीति त्रसाः-चलनधर्माणः, तत्र तेजोवायवो गतियोगात् साः, उदाराः-स्थूलाः त्रसा' इति त्रसनामकर्मोदयवर्तित्वात् ,'प्राणा' इति व्यक्तीच्छासादिप्राणयोगात् द्वीन्द्रियादयस्तेऽपि गतियोगादेव त्रसा इति । उक्तास्त्रसाः, तद्विपर्ययमाह-तिविहें'त्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावराः, शेषं व्यक्तमेवेति । है इह च पृथिव्यादयः प्रायोऽङ्गुलासङ्ग्येयभागमात्रावगाहनत्वात् अच्छेद्यादिस्वभावा व्यवहारतो भवन्तीति तत्प्रस्तावा निश्चयाच्छेद्यादीनष्टभिः सूत्रैराह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy