________________
श्रीस्थानागसूत्र
वृत्तिः
३ स्थानकाध्ययने | उद्देशः२ सू०१६४
॥१३३॥
चाष्टादशविधा-"पुढवि१जलरजलणवाया४मूला५खंधग्गपोरबीया य८ । बि९ति१०चउ११पंचिंदियतिरिय १२ नारगा १३ देवसंघाया १४ ॥१॥ संमुच्छिम १५ कम्मा १६ कम्मभूमगनरा १७ तहतरद्दीवा १८ । भावदिसा दिस्सइ ज संसारी निययमेयाहिं ॥ २॥" इति, इह च क्षेत्रतापप्रज्ञापकदिग्भिरेवाधिकारः, तत्र च तिर्यग्ग्रहणेन पूर्वाद्याश्चतस्र एव दिशो गृह्यन्ते, विदिक्षु जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात् , शेषपदेषु च विदिशामविवक्षितत्वात्, यतोऽत्रैव वक्ष्यति,-" छहिं दिसाहिं जीवाणं गई पवत्तईत्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तम्-"निव्वाघाएण नियमा छद्दिसिंति" तत्र 'तिहिं दिसाहिति सप्तमी तृतीया पश्चमी वा यथायोगं व्याख्येयेति, गतिः-प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्, 'एव'मिति पूर्वोक्ताभिलापसूचनार्थः, आगतिः-प्रज्ञापकप्रत्यासन्नस्थाने आगमनमिति, व्युत्क्रान्तिः-उत्पत्तिः, आहारः प्रतीतः, वृद्धिः-शरीरस्य वर्द्धनं, निवृद्धिः-शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्घातो-वेदनादिलक्षणः, कालसंयोगो-वर्तनादिकाललक्षणानुभूतिः मरणयोगो वा, दर्शनेन-अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो-बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जी. वानां ज्ञेयानां अवध्यादिनैवाभिगमो जीवाभिगम इति । तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तं०-उड्डाए ३'| एवं सर्वत्राभिलपनीयमिति दर्शनार्थ परिपूर्णान्त्यसूत्राभिधानमिति । एतान्यपि जीवाभिगमान्तानि सामान्यजीवसूत्राणि
१पृथ्वीजलज्वलनवाता मूलस्कंधानपर्वबीजाश्च । द्वित्रिचतुःपंचेंद्रियतिर्यनारका देवसंघाताः ॥१॥ संमूछिमकर्माकर्मभूमिगनरास्तथान्तरद्वीपगाः भावदिशो व्यपदिश्यते यत्संसारी नियतमेताभिः ॥१॥
॥१३३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org