SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आह च-"नामं १ठवणा २ दविए ३ खेत्तदिसा ४ तावखेत्त ५ पन्नवए ६ । सत्तमिया भावदिसा७ सा होअट्ठारसविहाउ8 ॥१॥” तत्र द्रव्यस्य-पुद्गलस्कन्धादेर्दिक द्रव्यदिक्, क्षेत्रस्य-आकाशस्य दिक् क्षेत्रदिक्, सा चैवं-“अहपएसो रुयगो ति-IC रियंलोयस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥” तत्र पूर्वाद्या महादिशश्चतस्रोऽपि द्विप्रदेशा-12 दिकाड्युत्तराः, अनुदिशस्तु एकप्रदेशा अनुत्तराः, ऊर्ध्वाधोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि-"दुपएसादि दुरुत्तर ४ एगपएसा अणुत्तरा चेव। चउरो४ चउरो य दिसा चउरादि अणुत्तरादुन्नि २॥१॥ संगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि। मुत्तावलीउ चउरो दो चेव य हुति रुयगनिभा ॥२॥" नामानि चासाम्-"ईद १ ग्गेयी २ जम्मा य ३ नेरई ४ वारुणी य ५ वायव्या ६ । सोमा ७ ईसाणावि य ८ विमला य ९ तमा १० य बोद्धव्वा ॥१॥" तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा च अनियता, यत उक्तम्-"जेसिं जत्तो सूरो उदेइ तेसिं तई हवइ पुव्वा । तावक्खे त्तदिसाओ पयाहिणं सेसियाओ सिं ॥१॥" तथा प्रज्ञापकस्य-आचार्यादेर्दिक प्रज्ञापकदिक्, सा चैवम्-“ पन्नवओ है जयभिमुहो सा पुब्बा सेसिया पयाहिणओ । तस्सेवऽणुगंतव्वा अग्गेयाई दिसा नियमा ॥१॥" भावदिक् । १ नाम स्थापना द्रव्यक्षेत्रदिशः तापक्षेत्रप्रज्ञापकाः । सप्तमीका भावदिक् सा भवत्यष्टादशविधा एव ॥१॥ २ अष्टप्रदेशो रुचको मध्ये तिर्यग्लोकस्य एष प्रभवो | दिशामेष एवानुदिशामपि ॥ १॥ ३ युत्तरा द्विप्रदेशादिका अनुत्तरैकप्रदेशा चैव । चतस्रश्चतस्रश्च दिशः चतुरादी अनुत्तरे द्वे ॥१॥ ४ शकटोर्द्धिसंस्थिता महादिशो भवंति चतस्रः । मुक्तावलीव चतस्रो द्वे एव च भवतो रुचकनिभे ॥१॥ ५ ऐन्द्री आमेयी यमा च नैर्ऋतिर्वारुणी च वायव्या । सोमा ईशानी अपि च विमला च | तमा च बोद्धव्या ॥१॥ ६ येषां यतः सूर्य उदयते तेषां सा भवति पूर्वा । तापक्षेत्रदिक् प्रदक्षिणं शेषा अस्याः ॥१॥ ७ प्रज्ञापको यदभिमुखस्तिष्ठति सा | पूर्वा प्रदक्षिणतः शेषाः । तस्या एवानुगंतव्याः आग्नेय्याद्या दिशो नियमाव ॥१॥ SASAASASSASSASSA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy