SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ १३२ ॥ 'तिविहे 'त्यादि सूत्रसिद्धं ॥ जीवाधिकारात् सर्वजीवांस्त्रिस्थानकावतारेण पह्निः सूत्रैराह - 'तिविहे 'त्यादि, सुबोधं, नवरं 'नोपज्जन्त' ति नोपर्याप्त कानो अपर्याप्तकाः - सिद्धाः, 'एव'मिति पूर्वक्रमेण सम्मद्दिट्ठीत्यादिगाथार्द्धमुक्तानुक्तसूत्रसग्रहार्थमिति । 'तिविहा सव्वजीवा पं० तं०-परित्ता १ अपरित्ता २ नोपरित्तानोअपरित्ता ३' तत्र परीत्ता:- प्रत्येकशरीराः अपरीत्ताः - साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थं व्यत्यय इति, 'सुम'त्ति तिविहा सव्वजीवा पं० तं० - सुहुमा बायरा नोसुहुमानोबायरा, एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र च तृतीयपदे सिद्धा वाच्या इति ॥ सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह तिविधा लोगठिती पं० तं० - आगासपइट्टिए वाते वातपतिट्ठिए उदही उदहिपतिट्ठिया पुढवी, तओ दिसाओ पं० तं०उद्धा अहा तिरिया १, तिहिं दिसाहिं जीवाणं गती पवत्तति, उड्डाए अहाते तिरियाते २, एवं आगती ३ वकंती ४ आहारे ५ बुड्डी ६ णिबुडी ' ७ गतिपरियाते ८ समुग्धावे ९ कालसंजोगे १० दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३, तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं० तं० उड़ाते अहाते तिरियाते १४, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि ( सू० १६३ ) 'तिविहे 'त्यादि कण्ठ्यं, किन्तु लोकस्थितिः - लोकव्यवस्था आकाशं व्योम तत्र प्रतिष्ठितो-व्यवस्थित आकाशप्रतिष्ठितो वातो- घनवाततनुवातलक्षणः सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात् उदधिः - घनोदधिः पृथिवी - तमस्तमःप्रभादिकेति ॥ उक्तस्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वकं तासु गत्यादि निरूपयन् 'तओ दिसे त्यादि सूत्राणि चतुर्द्दशाह - सुगमानि च, नवरं दिश्यते - व्यपदिश्यते पूर्वादितया वस्त्वनयेति दिकू, सा च नामादिभेदेन सप्तधा, Jain Education International For Personal & Private Use Only ३ स्थानकाध्ययने उद्देशः ३ सू० १६३ ॥ १३२ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy