________________
दर्शनीयाः, एवञ्च यद्भवति तदाह – 'एक्के' इत्यादि, एकैकस्मिन् विषये षडालापका भणितव्या भवन्तीति, तत्र शब्दे दशिता एव, रूपादिषु पुनरेवं रूपाणि दृष्ट्वा सुमना दुर्मना अनुभयं १ एवं पश्यामीति २ एवं द्रक्ष्यामीति ३ एवं अ दृष्ट्वा ४ न पश्यामीति ५ न द्रक्ष्यामीति ६ षट्, एवं गन्धान् घ्रात्वा ६ रसानास्वाद्य ६ स्पर्शान् स्पृष्ट्वेति ६ । 'तहेव ठाणा यत्ति यत्सग्रहगाथायामुक्तं तद् भावयन्नाह - 'तओ ठाणा' इत्यादि, त्रीणि स्थानानि निःशीलस्य - सामान्येन शुभस्वभाववर्जितस्य विशेषतः पुनः निर्व्रतस्य प्राणातिपाताद्यनिवृत्तस्य निर्गुणस्योत्तरगुणापेक्षया निर्म्मर्यादस्य लोककु| लाद्यपेक्षया निष्प्रत्याख्यानपौषधोपवासस्य - पौरुष्यादिनियमपर्वोपवासरहितस्य गर्हितानि - जुगुप्सितानि भवन्ति, तद्यथा
'अस्सि' ति विभक्तिपरिणामादयं लोकः - इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात्, तथा उपपातः - अकामनिर्जरादिजनितः किल्बिषिकादिदेवभवो नारकभवो वा, 'उपपातो देवनारकाणा' मिति ( नारकदेवानामुपपातः तत्त्वा० अ० २ सू० ३५ ) वचनात् स गर्हितो भवति किल्बिषिकाभियोग्यादिरूपतयेति, आजातिः - तस्माच्यु तस्योद्वृत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता, कुमानुषादित्वादेवेति । उक्तविपर्ययमाह - 'तओ' इत्यादि, निगद सिद्धम् ॥ एतानि च गर्हितप्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाह—
तिविधा संसारसमावन्नगा जीवा पं० तं० - इत्थी पुरिसा नपुंसगा, तिविहा सव्वजीवा पं० तं० सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छदिट्ठी य, अहवा तिविहा सब्वजीवा पं० तं० पज्जत्तगा अपज्जत्तगा णोपज्जत्तगाणोऽपज्जत्तगा । एवंसम्मद्दिट्ठिपरित्तापज्जत्तग सुहुमसन्निभविया य ( सू० १६२ )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org