SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ LOCALCOACCORROROSCOCONS सुबोधं, किन्तु बोधिः-सम्यग्बोधः, इह च चारित्रं बोधिफलत्वात् बोधिरुच्यते, जीवोपयोगरूपत्वाद्वा, बोधिविशिष्टाः पुरुषास्त्रिधा ज्ञानबुद्धादय इति, 'एवं मोहे मूढ'त्ति बोधिवद्वद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि-तिविहे मोहे पण्णत्ते, तंजहा-नाणमोहे' इत्यादि, 'तिविहा मूढा पन्नत्ता, तंजहा-णाणमूढेइत्यादि ॥ चारित्रबुद्धाः प्रागभिहिताः, ते च प्रव्रज्यायां सत्यामतस्तां भेदतो निरूपयन्नाह-तिविह'त्यादि, सूत्रचतुष्टयं सुगम, केवलं प्रव्रजनंगमनं पापाचरणव्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, उक्तं च-"पव्वयणं पव्वजा पावाओ सुद्धचरणजोगेसु । इय मोक्खं पद गमणं कारण कज्जोवयाराओ॥ १ ॥” इति, इहलोकप्रतिबद्धा-ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा-जन्मान्तरकामाद्य|र्थिनां द्विधाप्रतिबद्धा-इहलोकपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः-अग्रत्तः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु | शिष्यादिष्वाशंसनतः प्रतिबन्धात् मार्गतः-पृष्ठतः स्वजनादिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति । 'तुयावइत्त'त्ति 'तुद व्यथने' इति वचनात् तोदयित्वा-तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, 'पुयावइत्त'त्ति, 'प्लुङ्गताविति वचनात् प्लावयित्वा-अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते सा तथेति, 'बुयावइत्ता' संभाष्य गौतमेन कर्षकवदिति । अवपातः-सेवा सद्गुरूणां ततो या सा अवपातप्रव्रज्या, तथा आख्यातेन-धर्मदेशनेन आख्यातस्य वा-प्रव्रजेत्यभिहितस्य गुरुभिर्या साऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, 'संगा १ प्रवजनं प्रव्रज्या पापाच्छुद्धचरणयोगेषु । एवं मोक्षं प्रति गमनं (प्रवज्या) कारणे कार्योपचारात् ॥१॥ RARASIMAALAAAAAA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy